पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८४
[ आदितस्तरङ्गः
कथासरित्सागरः

स्वर्गे वसंश्च कुर्वीथाः पुण्यं तदाढर्यसिद्धये । ततः कुर्यास्तपस्तत्र कुत्नपापापनुत्तये ॥
इत्युक्तश्चित्रगुप्तेन स स्वैरं सिंहविक्रमः । विलक्षोऽधोमुखो भीतः प्रतिपेदे तथेति तत् ॥
क्षणाच्च धर्मराजोऽत्र चित्रगुप्तमभाषत । कश्चित्कोऽध्यस्य पुण्यांशश्चौरस्यास्त्यत्र किं न वा॥
चित्रगुप्तस्ततोऽवादीदस्यखावतिथिप्रियः । प्रादाद्वरानपि स्वेष्टदेवताप्रीतयेऽर्थने ॥
ततोऽस्य दिवसं दिव्यमस्ति स्वर्गगतिः प्रभो । श्रुत्वैतद्धर्मराजस्तमपश्यस्सिहविक्रमम् ॥
रे शुभाशुभयोः पूर्वं भुङ् किं कथ्यतामिति । ततः प्रार्थितवान्पूर्वे स शुभं सिंहविक्रमः ॥
तेनाज्ञया धर्मराजस्यागतं स चिमानकम्। आरुह्य त्रिदिवं प्रायाचित्रगुप्तवचः स्मरन् ॥
तत्र व्योमसरिस्नानजपव्रतपरायणः । द्वितीयं दिवसं प्राप स स्वर्गे भोगनिस्पृहः ॥
एवं क्रमेण चासाद्य स्खरै तीव्रतपोबलात् । आराध्य शंकरं प्राप ज्ञानं निर्दग्धकिल्बिषः ॥
ततोऽस्य नारका दूता न शेकुर्मुखमीक्षितुम् । चित्रगुप्तो ममार्जाघं भूर्जे तूष्णीमभूद्यमः ॥
इत्थं चौरोऽपि सत्प्रज्ञाबलात्सिद्धिमवाप सः। सिंहविक्रम इत्येषा प्रज्ञापारमितोदिता ॥
एवं चारुह्य नौतुल्यां तरन्येव भवाम्बुधिम् । वस बुद्धोक्तदानादिषट्पारमितां बुधाः ॥
इति तस्मिन्वने सोमसूरं तस्यानुशासतः । बोधिसत्वपदस्थस्य विनीतमतिभूपतेः ॥
भास्करस्ता निशम्यैव प्रशाम्यन्धर्मदेशनाः । संध्यारागात्तकाषायो विवेशास्ताद्रिकंदरम् ॥
ततः संध्यामुपस्थाय यथावत्तत्र तां निशाम् । स विनीतमती राजा सोमशूरश्च निन्यतुः ॥
अन्येद्युश्च क्रमात्तस्मै सोमशूराय शासनम् । स विनीतमतिबद्धं सरहस्यमुपादिशत् ॥
ततः स सोमशूस्तमुपासीनो गुरं वने । तस्थौ समाधिनिष्ठोऽत्र वृक्षमूळे कृतोटजः ॥
क्रमाच्च तौ समं तत्र गुरुशिष्यावुभावपि । लब्धयोगमहासिद्धी परां बोधिमवापतुः ॥
अत्रान्तरे स कनककलशो मत्सरानृपः । तेनेन्दुकलशेनैत्य तखङ्गाधप्रभावतः ॥
भ्रात्रा निर्वासितस्तस्माप्यहिच्छत्रराज्यतः। यद्विनीतमतिस्तस्मै तदुत्खाताय दत्तवान् ॥
स राज्यविच्युतो भ्राम्यन्द्वित्रस्वसचिवान्चितः । तद्विनीतमतेः प्राप दैवादाश्रमकाननम् ॥
तत्र यावत्स दुर्वारश्चतृष्णातोऽभिवाञ्छति । फलमूलाम्बु तावत्तन्माययेन्द्रेण काननम् ॥
दग्ध्वा मरूकृतं प्राग्वत्तं वञ्चयितुमिच्छता । विनीतमतिमेतादृगध्धगातिथ्यलोभतः ॥
सोऽव्यकस्मान्मरूभूतमात्माश्रममवेक्ष्य तम् । विनीतमतिरुद्धान्तो बभ्रामेतस्ततः क्षणम् ॥
ददर्श तं च कनककलशं भ्रान्तमगतम् । क्षुधा कण्ठगतप्राणमतिथिं सानुगं ततः ॥
उपेत्य तादृशं तं च वृत्तान्तं परिपृच्छय च। आतिथेयः कृतप्रश्नो बोधिसत्त्वो जगाद सः ॥
अरण्येऽस्मिन्निरातिथ्ये मरुभूमित्वमागते । जीवितोपायमप्येतं क्षुधितानां वदामि वः ॥
इतोऽर्धक्रोशमात्रेऽत्र पतित्वा खातके मृतः । मृगस्तिष्ठति तन्मांसैः प्राणात्रश्नत गच्छत ॥
तथेत्यार्तेऽतिथौ तत्र सानुगे गन्तुमुद्यते । स विनीतमतिर्बोधिसत्वः पूर्वं ततो ययौ ॥
प्राप्य तत्खातकं कृत्वा मृगरूपं च योशतः । निक्षिप्य तत्र चात्मानं सोऽर्थिहेतोर्जह्वसून् ॥
ततः शनैस्ते कनककलशाद्याः समाययुः । खातं तद्ददृशुश्चात्र तं विपन्नस्थितं मृगम् ॥
उद्धृत्य तमथोत्पाद्य ज्वलनं तृणकण्टकैः। भृष्ट्वा च तस्य मांसानि ते निःशेषाण्यभक्षयन् ॥
तावच्च तस्य भार्ये हे बोधिसत्त्वस्य विह्नले । पश्यन्त्यावाश्रमध्वंसमपश्यन्स्यौ च तं पतिम् ॥
गत्वा नागमुताराजसुते तस्मै तदूचतुः। सोमशराय निबिडाचलिताय समाधितः ॥
सोऽपि तत्प्रणिधानेन विज्ञाय गुरुचेष्टितुम् । शशंस गुरुपत्नीभ्यां ताभ्यां दुःखप्रद्यपि ॥
ताभ्यामेव समं चाशु तत्खातनिकटं ययौ । यत्रातिथिभ्यस्तेनात्मा दत्तोऽस्य गुरुणा तथा ॥
तत्र ते नागतनयाराजपुत्र्यौ मृगाकृतिम् । शृङ्गास्थिमात्रशेषं तं पतिं दृष्ट्वान्वशोचताम् ॥
तच्छुङ्गास्थीनि चादाय स्वाश्रमाद्दरुसंचयम् । आनीयाग्निप्रवेशं ते कुरुतः स्म पतिव्रते ॥
ततस्तत्र स्थितः सोऽपि ज्ञातवृत्तान्तदुःखितः । अग्निप्रवेशं कनककलशः सानुगो व्यधात् ॥