पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ५ ।]
 

युक्तवन्तं स्तुत्वा तं सुगतांशं तथेति सः । आदाय च प्रजास्तुष्टः सुरेन्द्रत्रिदिवं ययौ ॥ २३४
Iऽपि तां तरुतां त्यक्त्वा राजपुत्रः स्वरूपभृत् । तपसेन्दुप्रभः प्राप वनस्थो बोधिसत्त्वताम् ॥ २३५
यं स्याद्दनसक्तानां सिद्धिरित्युदिता मया । दानपारमितैषा ते शीलपारमितां श्रुणु ॥ २३६
। शुकानां राजाभूद्विन्ध्याद्रौ सुगतांशजः । प्राग्जन्माभ्यस्तशीलाढ्यो नाम्ना हेमप्रभो वशी ॥ २३७
य जातिस्मरस्यासीदपि धर्मोपदेशिनः । रागिमूर्धः प्रतीहारो नाम्ना चरुमतिः शुकः ॥ २३८
जातु पाशिना भार्या व्याधेन निहतां शुकीम् । शोचन्नवस्थां करुणां तद्वियोगातुरो ययौ ॥ २३९
ः स शुकराजस्तं युक्तया शोकं निवारयन् । हेमप्रभो हितायैवमुवाच मतिमान्मृषा ॥ २४०
सा तव मृता भार्या पाशाच्छाकुनिकस्य सा । गता पलाय्य दृष्टा हि जीवन्त्येव मयाधुना ॥ २४१
याम्येहि तुभ्यं तामित्युक्खा स निनाय तम् । राजा चारुमतिं व्योममार्गेणैकं जलाशयम् ॥ २४२
| संदर्य तस्यैव प्रतिबिम्बं जलान्तरे । तमब्रवीदियं सा ते भार्यां पश्येह तिष्ठति ॥ २४३
श्रुत्वा वीक्ष्य चात्रमप्रतिबिम्बं स मूढधीः। हृष्टः प्रविश्य तोये तामालिलिङ्ग चुचुम्ब च ॥ २४४
प्नुवन्प्रियास्पर्शमश्रुवंस्तद्वचश्च सः । स्पर्शालापैौ प्रिया किं मे न ददातीत्यचिन्तयत् ॥ २४५
पाशी ततो गत्वैवानीयामलकं ततः । चार्थं दयितायुज्या न्यधात्स्वे प्रतिबिम्बके ॥ २४६
मनोत्पतितं कान्ताप्रतिक्षिप्तमवेत्य च । गत्वा सखेदो राजानं तं हेमप्रभमभ्यधात् ॥ २४७
भार्या न सा स्पर्शमालापं वा ददाति मे । किं चैतया प्रतिक्षिप्तं द्त्तमामलकं मया ॥ २४८
श्रुत्वा स राजा तं शनैः कृच्छादिवाम्रवीत् । न युक्तमेतद्वक्तुं मे वच्मि नेहात्तथापि ते ॥ २४९
यानुरक्तता ह्यथैषा त्वयि प्रीतिं कथं भजेत् । दर्शयामि च ते साक्षादेद्यत्रैव जलान्तरे ॥ २५०
भुक्त्वा तत्र नीत्वा तं स्वं तदीयं च वारिणि । प्रतिबिम्बे उभे राजा तस्मै श्लिष्टं अदर्शयत् ॥ २५१
दृश्चैव स तां भार्यां मूढं मस्वान्यसंगताम् । संनिवृत्य विरक्तस्तं स्वं राजानं व्यजिज्ञपत् ॥ २५२
त्वदुपदेशो यन्मया मूढेन न श्रुतः । तस्येष पाकस्तन्मेऽत्र कर्तव्यमधुनादिश ॥ २५३
तं कृतविज्ञप्ति राजा हेमप्रभोऽथ सः । लब्धोपदेशावसरः प्रतीहारमभाषत ॥ २५४
हालाहलं भुक्तमहिर्बद्धो वरं गले । न पुनः स्त्रीषु विश्वासो मणिमन्नाद्यगोचरः ॥ २५५
कयन्ति सन्मार्गजुषः परिभवन्त्यलम् । वात्या इवातिचपलाः स्त्रियो भूरिरजोभृतः ॥ २५६
सु न प्रसक्तव्यं धीरसत्त्वैः सुबुद्धिभिः । शीलमभ्यसनीयं तु वीतरागपदाप्तये ॥ २५७
तेनानुशिष्टः स राज्ञा चारुमतिः स्त्रियः । परिहृत्य बभूवोर्ध्वरेता बुद्धसमः क्रमात् ॥ २५८
म्यानपि शीलाढ्यास्तारयन्तीति ते मया । शीलपारमिता प्रोक्ता क्षमापारमितां शृणु ॥ २५९
च्छुभनयो नाम केदाराद्रौ महामुनिः। सदा मन्दाकिनीतोयस्नायी दान्तस्तपःकृशः ॥ २६०
श तत्रैकदा पूर्वनिखातं भुवि काञ्चनम् । अन्वेष्टुमाययुश्चौरा न च प्रापुः कुतोऽपि तत् ॥ २६१
ऽत्र विजने मत्वा तेन तन्मुनिना हृतम् । प्रविश्य मठिकां तस्य चौरास्ते ब्रुवते स्म तम् ॥ २६२
दम्भमुने मुञ्च नीतं नः काञ्चनं क्षितेः। चौराणामप्यहो चौरस्त्वमस्माकमुपस्थितः ॥ २६३
क्षिप्तः स तैः पापैरहृतार्थे सृषा मुनिः । न नीतं तन्मया किंचिन्न दृष्टं चेत्यभाषत ॥ २६४
तैर्लगुडैर्देवैस्ताडितोऽपि स दस्युभिः। यदा तदेव वक्ति स्म सत्यवाड्मुनिसत्तमः ॥ २६५
ते चिच्छिदुस्तस्य क्रूरोऽयमिति तस्कराः। क्रमाद्धस्तौ च पादौ च नयने चोदपाटयन् ॥ २६६
प्यनन्यवचनं निर्विकारमवेत्य तम् । मत्वान्यलुप्तं स्वर्ण ते जग्मुश्चौरा यथागतम् ॥ २६७
श्र शेखरज्योतिनीम राजात्र तं मुनिम् । पश्यति स्म तथाभूतं शिष्यस्त दर्शनागतः॥ २६८
स गुरुशोकार्तस्तं दृष्ट्वा तद्वेत्य च । अन्विष्यानाययच्चौरांस्तांस्तत्रैव तदा प्रभुः ॥ २६९
वधे प्रवृत्तं च नृपं तं सोऽब्रवीन्मुनिः। राजन्यदि निहंस्येतांस्तदास्मानं निहन्म्यहम् ॥ २७०
णेदं कृतं चेन्मे तदेषां कापराधिता । तस्य वा प्रेरका ते तद्धेतेषामपि क्रुधः ॥ २७१
मपि स्वर्णनाशस्तस्य मत्पूर्वदुष्कृतम् । तस्यापि स्वं ममाज्ञानं तस्मात्तदपरि मे ॥ २७२