पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्युक्ता आप त तन पर्व ज्या तावद। ८५ ययुव२९ ७ ८ ज५।९ ॥
सीमाप्राप्तांश्च तान्बुद निर्यास्यन्समराय सः । राजा चमरवालः प्राक्ज्ञात्वा हरमपूजयत् ॥
अष्टषष्टयुत्तमस्थाननियतैर्नामभिः शुभैः यथावत्तं च तुष्टाव पापनैः सर्वकामदैः ॥
राजन्युध्यस्व निःशङ्कः शङ्कजेष्यसि संग । इत्युक्तां च गगनात्सोऽथ शुश्राव भारतीम॥
ततः प्रहृष्टः संनह्य तेषां निजबलान्वितः । राजा चमरवालोऽने युद्धाय निरगाद्विषाम् ॥
त्रिंशद् जसहस्राणि त्रीणि लक्षाणि वाजिनाम् । कोटिः पादभटानां च तस्यासीद्वैरिणां बले ॥
स्वबले च पदातीनां तस्य लक्षाणि विंशतिः। दश दन्तिसहस्राणि हयानां लक्ष्मष्यभूत् ॥
प्रवृत्ते तु महायुद्धे तयोरुभयसेनयोः। यथार्थनाम्नि वीराख्ये प्रतीहरेऽप्रयायिनि ॥
स्वयं चमरबालोऽसौ राजा तत्समराङ्गणम् । महावराहो भगवान्महर्णवमिवाविशत् ॥
ममर्द चाल्पसैन्योऽपि परसैन्यं महत्तथा । यथाश्वगजपत्तीनां हयानां राशयोऽभवन् ॥
धावित्वा चात्र समरबलं तं संमुखागतम् । आहत्य शक्या राजानं पशेनाकृष्य बद्धवान् ॥
ततः समरश्रं च हृदि बाणाहतं नृपम् । द्वितीयं तद्वद ऋध्य पाशेनैव बबन्ध सः ॥
तृतीयं चात्र समरजितं नाम महीपतिम् । वीराख्यस्तत्प्रतीहारो बद्ध्वा तत्पार्श्वमानयत् ॥
सेनापतिर्देवबलस्तस्यानीय समर्पयत् । नृपं प्रतापचन्द्राख्यं चतुर्थं सायकाहतम् ॥
ततः प्रतापसेनाख्यस्त दृष्ट्वा पञ्चमो नृपः । क्रोधाचमरवालं तं भूपमभ्यपतद्रणे ॥
स तु निघूय तद्वाणान्स्वशरौघेण विद्धवान् । राजा चमरवालस्तं ललाटे त्रिभिराशुगै॥
कण्ठक्षितेन पाशेन तं च काल इवाथ सः आकृष्य स्ववशे चक्रे शराघातविघूर्णितम् ॥
एवं राजसु बद्धेषु तेषु पञ्चस्वपि क्रमात् । हतशेषाणि सैन्यानि दिशस्तेषां प्रदुद्रुवः ॥
अमितं हेमरत्नादि बहून्यन्तःपुराणि च । राज्ञा चमरवालेन प्राप्तान्येषां महीभुजाम् ॥
तन्मध्ये च महादेवी यशोलेखेति विश्रुता । राज्ञः प्रतापसेनस्य प्राप्ता तेनङ्गनोत्तमा ॥
ततः प्रविश्य नगरं वीरदेवबलौ च सः । क्षुत्तृसेनापती पहुं बद्धा रत्नैरपूरयत् ॥
प्रतापसेनमहिषीं क्षत्रधर्मजितेति ताम् । यशोलेखां स नृपतिः स्वावरोधवद्रं व्यधात् ॥
भुजार्जिताहमस्येति सेहे सा चपलापि तम् । काममोहप्रवृत्तानां शबला धर्मवासना ॥
दिनैश्चाभ्यर्थितो राधया स यशोलेखया तया । राजा चमरबालस्तान्बद्धान्पञ्चपि भूपतीन् ॥
प्रतापसेनप्रभृतीन्हीतविनयानतान्। मुमोच निजराज्येषु सत्कृत्य विससर्ज च ॥

ततः स तदकण्टकं विजितशत्रु राज्यं निजं


समृद्धमशिषच्चिरं चमरबालपृथ्वीपतिः।


अरंस्त च वराप्सरोभ्यधिकरूपलावण्यया


द्विषज्जयपताकया सह तया यशोलेखया ॥


एवं बहूनपि रिपून्रभसप्रवृत्तान्हृषाकुलानगणितस्वपरस्वरूपान् ।


एकोऽप्यनन्थसमर्पौरुषभन्नसारदर्पज्वराजयति संयुगमूनि धीरः ॥


इति गोमुखेन कथितामथ्र्यं श्रुत्वा कथां कृतश्लाघः।


अकरोदथ नरवाहनदत्तः स्नानादि दिनकार्यम् ।


निनाय संगीतरसाच्च तां तथा निशां स गायन्स्वयमङ्गनासखः


सरस्वती तस्य नभःस्थिता यथा ददौ प्रियाभिश्चिरसंस्तवं वरम् ।


इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवेतीलम्बके चतुर्थस्तरङ्गः


पश्चमतरङ्ग