पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
[ आदितस्
कथासरित्सागरः ।

सा मदालोकसंजातमन्मथान्विष्य नाम मे । वयस्यां प्राहिणोदप्तां मषं मत्संगमार्थिनी ॥
सा तद्वयस्या कामान्धार्युपगम्य जनान्तिकम् । आख्याततदभिप्राया मामनैषीन्निजं गृहम् ॥
तत्र मां स्थापयित्वा च गत्वा गुप्तं तदैव सा । तां बन्धुदत्तमानैषादौत्सुक्यागणितत्रपाम् ॥
आनीतैव च सा मेऽत्र कण्ठाश्लेषमुपागमत् । एकवीरो हि नारीणामतिभूमिं गतः स्मरः ॥
एवं दिने दिने स्वैरमागत्यात्र पितुर्गुहत् । अरंस्त बन्धुदत्ता सा मया सह सखीगृहे ॥
एकदा तां निजगृहं, नेतुं तत्र चिरस्थिताम् । आगतः स पतिस्तस्या मथुरातो महावणिक् ॥
ततः पित्राभ्यनुज्ञाता पत्या तेन निनीपिता । रहस्यज्ञां द्वितीयां सा बन्धुदत्तात्रवीत्सखीम् ॥
निश्चितं सखि नेतव्या भट्ट मथुरां पुरीम् । न च जीवाम्यहं तत्र सोमस्वामिविनाकृता ॥
तदत्र कोऽभ्युपायो मे कथयेत्युदिता तया । सखी सुखशया नाम योगिनी तां जगाद सा ॥
द्वौ स्तो मत्रप्रयोगौ से ययोरेकेन सूत्रके । कण्ठबद्धे झगित्येव मानुषो मर्कटो भवेत् ॥
द्वितीयेन च मुक्तेऽस्मिन्सूत्रके सैष मनुषः। पुनर्भवेत्कपित्वे च नास्य प्रज्ञा विलुप्यते ॥
तद्यदीच्छति सुश्रोणि सोमस्वामी प्रियः स ते । तदेतं मर्कटशिरौ संप्रत्येव करोम्यहम् ॥
ततः क्रीडानिभदेतं गृहीत्वा मथुरां व्रज । मन्त्रयुक्तिद्वयं चैतद्भवतीं शिक्षयाम्यहम् ॥
संविधास्यसि येनैनं पार्श्वस्थं मर्कटाकृतिम् । रहःस्थाने च पुरुषं प्रियं संपादयिष्यसि ॥
एवमुक्ता तया सख्या बन्धुदत्ता तथैव सा । रहस्यानाय्य सस्नेहं तदर्थ मामबोधयत् ॥
कृतानुजं च मां बद्धमनसूत्रं गळे क्षणात् । तत्सखी सा सुखशया व्यधान्मर्कटपोतकम् ॥
तदूपेण स्वभत्रै सा बन्धुदत्तोपनीय माम् । सख्या मखं विनोदाय दत्तोऽसावित्यदर्शयत् ॥
अतुष्यत्स च मां दृष्ट्वा क्रीडनीयं तदङ्गम् । अहं च कपिरेवासं प्राज्ञोऽपि व्यक्तवागपि ॥
अहो स्त्रीचरितं चित्रमित्यन्तश्च हसन्नपि । तथातिष्ठमहं को हि कामेन न विडम्ब्यते ॥
सख्या शिक्षिततन्मज्ञा बन्धुदत्ताद्यथापरे । मथुरां प्रति सा प्रायाद्भर्न सह पितुगृहात् ॥
मां चाप्येकस्य भृत्यस्य स्कन्धमारोपयत्तदा । स भर्ता बन्धुदत्तायाः पथि तत्प्रियकाम्यया ॥
ततो वयं ते सर्वेऽपि यान्तो मध्ये पथि स्थितम् । दिनैर्दूिलैर्वनं प्राप्ता बहुमर्कटभीषणम् ॥
ततोऽभ्यधावन्दृष्ट्वा मां मर्कटा गणशोऽभितः । क्षितं किलकिलारावैराह्वयन्तः परस्परम् ॥
आगत्य खादितुं ते च प्रारभन्त प्लवंगमाः । दुर्वीरास्तं वणिग्भूत्यं यस्य स्कन्धेऽहमासितः ॥
स तेन विह्वलः स्कन्धात्यक्त्वैव भुवि मां भयात् । पलायितोऽभूदथ मामगृहंस्तेऽत्र मर्कटाः ॥
मत्स्नेहद्वन्धुदत्ता च तद्नंती तस्य चानुगः। पाषाणैर्लगुडेनन्तो जेतुं तान्नाशकन्कपीन् ॥
ततस्ते मर्कटा मूढस्यानेऽङ्गं लोम लोम मे । नवेंटुलुम्पन्दन्तैश्च कुकर्मकुपिता इव ॥
कण्ठसूत्रस्य माहात्म्याच्छंभोश्च स्मरणात्ततः। अहं लब्धबलस्तेभ्यो बन्धमुन्मुच्य विद्युतः ॥
प्रविश्य गहने तेषां व्यतीतो दृष्टिगोचरात् । क्रमाद्वनाद्वनं गच्छन्निदं प्राप्तोऽस्मि काननम् ॥
भ्रष्टस्य बन्धुदत्ताया जन्मन्यत्रेव ते कथम् । मर्कटत्वफलो जातः परदारसमागमः ॥
इति दुःखतमोन्धस्य भुभतः प्रावृषीह मे । दुःखान्तरमपि प्रत्तमसंतुष्टेन वेधसा ॥
यन्मामकस्मादागत्य कराक्रान्तं करेणुका । मेघाम्भःप्लुतवल्मीककर्दमान्तर्यवेशयत् ॥
भवितव्यनियुक्ता च जाने सा काषि देवता । यद्यत्नान्नाशकं तस्मात्पङ्कचलितुमप्यलम् ॥
आश्वास्यमाने चेतस्मिन्न मृतोऽस्मि न केवलम् । यावज्ज्ञानं ममोत्पन्नमनिशं यायतो हरम् ॥
तावत्कालं च नैवासीसुतृष्णा च सखे मम । याबद्द्योद्धृतः शुष्कपञ्चकूटादहं त्वया ॥
ज्ञानं प्राप्तेऽपि शक्तिमें तावती नैव विद्यते । मोचयेयं ययात्मानमितो मर्कटभावतः ॥
कण्ठसूत्रं यदा कापि तन्मन्त्रेणैव मोक्ष्यति । योगिनी मे तदा भूयो भवितास्मीह मानुषः॥
इत्येष मम वृत्तान्तस्त्वं त्वगम्यमिदं वनम् । किमागतः कथं चेति ब्रूहीदानीं वयस्य मे ॥



१.ज्ञात्वा.