पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
[ आदितस्तर
कथासरित्सागरः ।

तावच्च त्वमिहागत्य कुर्वन्पृष्ठविलेपनम् । दृष्टः स्तम्भेऽत्र मारीयमोहनास्त्रोपमो मया ॥
ततः प्रागनुरागेण रञ्जितः वान्तवान्मम । पश्चास्पृष्टविलेपिन्या अङ्गरागेण ते करः ॥
अतः परं ते विदितं तत्पितुर्धाम संप्रति । गच्छामीति तयोक्तोऽथ वणिक्पुत्रो जगाद सः ॥
स्वीकृतं तन्मया चण्डि न स्वन्तं भवतीहृतम् । अमुक्त स्वीकृतस्रान्त कथमेवं तु गच्छसि ॥
इति तेनोदिता सा च लघुरागवशीकृता । संगमिष्ये त्वया काममेष्यस्यस्मत्पुरं यदि ॥
दुर्गमा सा न ते नाथ सेत्स्यते ते समीहितम् । नहि दुष्करमस्तीह किंचिदध्यवसायिनाम् ॥
इत्युदीर्य खमुत्पत्य सानुरागपरा ययौ । अगान्निश्चयदत्तोऽपि स तद्गतमना गृहम् ॥
स्मरन्मादिव स्तम्भादुद्भिन्नं करपल्लवम् । हा धिक्तस्या गृहीत्वापि नाप्तः पाणिग्रहो मया ॥
तद्रजाम्यन्तिकं तस्याः पुरीं तां पुष्करावतीम् । प्राणांस्त्यक्ष्यामि दैवं वा साहाय्यं मे करिष्यति ॥
इति संचिन्तयनीत्वा स्मरार्तः सोऽत्र तद्दिनम् । प्रातिष्ठत ततः प्रातरवलम्व्योत्तरां दिशम् ॥
ततः प्रक्रमतस्तस्य त्रयोऽन्ये सहयायिनः । मिलन्ति स्म वणिक्पुत्रा उत्तरापथगामिनः ॥
तैः समं समतिक्रामन्पुरग्रामाटवीनदीः । क्रमादुत्तरदिग्भूमिं प्राप स म्लेच्छभूयसीम् ॥
तत्र तैरेव सहितः पथि प्राप्यैव तैजिकैः। नीत्वापरस्मै मूल्येन दत्तोऽभूत्तजिकाय सः॥
तेनापि तावकृत्यानां हस्ते कोशैलिकाकृते । मुरवराभिधानस्य तुरुष्कस्य व्यसृज्यत ॥
तत्र नीतः स तनृयैर्युक्तस्तैरपरैस्त्रिभिः । मुरवारं मृतं बुबा तपुत्राय न्यवेद्यत ॥
पितुः कोशलिका हेषा मित्रेण प्रेषिता मम । तत्तस्यैवान्तिके प्रातः खाते क्षेप्या इमे मया ॥
इत्यात्मना चतुर्थं तं तत्पुत्रोऽपि स तां निशाम् । संयम्य स्थापयामास तुरुष्को निगडैर्हढम् ॥
ततोऽत्र बन्धने रात्रौ मरणत्रासकातरान् । सखीन्निश्चयदत्तस्तान्स जगाद वणिक्सुतान् ॥
का विषादेन वः सिद्धिधैर्यमालम्ब्य तिष्ठति । भीता इव हि धीराणां यान्ति दूरे विपत्तयः ॥
स्मरतैकां भगवतीं दुर्गामापद्विमोचिनीम् । इति तान्धीरयन्भक्या देवीं तुष्टाव सोऽथ ताम् ॥
नमस्तुभ्यं महादेवि पादौ ते यवकङ्किता । मृदितासुरलग्नाम्नपङ्काविव नमाम्यहम् ॥
जितं शक्त्या शिवस्यापि विश्वैश्वर्यकृता त्वया । त्वदनुप्राणितं चेदं चेष्टते भुवनत्रयम् ॥
परित्रातास्त्वया लोका महिषासुरसूदिनि । परित्रायस्व मां भक्तवत्सले शरणागतम् ॥
इत्यादि सम्यग्देवीं तां स्तुत्वा सहचरैः सह । सोऽथ निश्चयदत्तोऽत्र श्रान्तो निद्रामगाहृतम् ॥
दुत्तिष्ठत सुता यात विगतं बन्धनं हि वः । इत्यादिदेश सा स्वप्ने देवी तं चापरांश्च तान् ॥
प्रबुध्य च तदा रात्रौ दृष्ट्वा बन्धान्स्खतयुतान् । अन्योन्यं स्वप्नमाख्याय हृष्टास्ते निर्ययुस्ततः ॥
गत्वा दूरमथाध्यानं क्षीणायां निशि तेऽपरे । ऊचुर्निश्चयदत्तं तं दृष्टत्रासा वणिक्सुताः ॥
आस्तां बहुम्लेच्छतया दिोषा दक्षिणापथम् । वयं यामः सखे त्वं तु यथाभिमतमाचर ॥
इत्युक्तस्तैरनुज्ञाय यथेष्टागमनाय तान्। उदीचीमेव तामाशामवळस्य पुनश्च सः ॥
एको निश्चयदत्तोऽथ प्रतस्थे प्रसभं पथि । अनुरागपराप्रेमपाशकृष्टो निरस्तधीः ॥
क्रमेण गच्छन्मिलितः स महाव्रतिकैः सह । चतुभिः प्राप्य सरितं वितस्तामुत्ततार सः ॥
उत्तीर्य च कृताहारः सूर्येऽस्ताचलचुम्बिनि । विवेश तैरेव समं वनं मार्गवशागतम् ॥
तत्र चापागताः केचित्तमूचुः काष्ठभारिकाः । क गच्छथ दिने याते प्रामः कोऽप्यस्ति नाग्रतः ॥
एकस्तु विपिनेऽमुष्मिन्नस्ति शन्यः शिवालयः । तत्र तिष्ठति यो रात्रावन्तर्वा बहिरेव वा ॥
तं शृङ्गोत्पादिनी नाम थुङ्गोत्पादनपूर्वकम् । मोहयित्वा पशकृत्य भक्षयत्येव यक्षिणी ॥
एतच्छुत्वापि सावज्ञास्ते महाव्रतिनस्तदा । ऊचुर्निश्चयदत्तं ते चत्वारः सहयायिनः ॥
एहि किं कुरुतेऽस्माकं वराकी सात्र यक्षिणी । तेषु तेषु श्मशानेषु निशासु हि वयं स्थिताः ॥
इत्युक्तवद्भिस्तैः साकं गत्वा प्राप्य शिवालयम् । शून्यं निश्चयदत्तस्तं रात्रिं नेतुं विवेश सः ॥



१ ‘मतवान्’ इति पुस्तकान्तरपाठः२ ताजिका म्लेच्छविशेषाः३ कोशलिका उपायनम्.