पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
[ आदितस्तरङ्गः
कथासरित्सागरः ।

रात्रिं च दुर्श्वभरसोसुकतातिगाढचिन्तामहोत्सवमयीमिव तां ततस्ते ।


निन्युः स्वसद्मसु पृथक्पृथगेव देवीवशतत्सचिवमुख्यकळिङ्गसेनाः ॥


इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमनुकालम्बके पश्चमस्तरङ्गः।


_____


षष्ठस्तरङ्गः


ततः प्रतीक्षमाणं तं वत्सराजमुपेत्य सः । यौगन्धरायणो धूर्तः प्रातर्मत्री व्यजिज्ञपत् ॥
लग्नैः कलिङ्गसेनाया देवस्य च शुभावहः। विवाहमङ्गळायेह किं नायैव विलोक्यते ॥
तच्छुत्वा सोऽब्रवीद्राजा ममाप्येवं हृदि स्थितम् । तां विना हि मुहूर्त मे स्थातुं न सहते मनः ॥
इत्युक्त्वैव स तत्कालं प्रतीहरं पुरःस्थितम् । आदिश्यानाययामास गणफन्सरलाशयः ॥
तेन पृष्टा महामत्रिपूर्वस्थापितसंविदः। ऊचुर्लग्नोऽनुकूोऽस्ति राज्ञो मासेषु पवितः ॥
तच्छुत्वैव मृषा कोपं कृत्वा चैौगन्धरायणः। अज्ञा इमे धिगित्युक्त्वा राजानं निपुणोऽब्रवीत् ॥
योऽसौ ज्ञानीति देवेन पूजितो गणकः पुरा । स नागतोऽद्य तं पृष्ट्वा यथायुक्तं विधीयताम् ॥
एतन्मन्निवचः श्रुर्वा वसेशो गणकं तदा। तमष्यानाययामास दोठारूढेन चेतसा ॥
सोऽप्यस्य काळहाराय स्थितसंवित्तथैव तम् । लग्नं पृष्टोऽब्रवीद्भयात्वा षण्मासान्ते व्यवस्थितम् ॥
ततो राजानमुद्विग्न इव यौगन्धरायणः। जगाद देव कर्तव्यं किमत्रादिश्यतामिति ॥
राजाप्युत्कः सुलनैषी स विमृश्य ततोऽभ्यधात् । कलिङ्गसेना प्रष्टव्या सा किमाहेत्यवेक्ष्यताम् ॥
तच्छुत्वा स तथेत्युक्वा गृहीत्वा गणकद्वयम् । पार्श्व कलिङ्गसेनाया ययौ यौगन्धरायणः ॥
तया कृतादरो दृष्ट्वा तद्पं स व्यचिन्तयत् । प्राप्येमां व्यसनाद्राजा सर्वं राज्यं यजेदिति ॥
उवाच चैनामुद्वहलग्नं तं गणकैः सह । निश्चेतुमागतोऽस्म्येतैर्जन्मॐ तन्निवेद्यताम् ॥
तच्छुत्वा जन्मनक्षत्रं तस्याः परिजनोदितम् । गणकास्ते मृषा कृत्वा विचारं मत्रिसंविदा ॥
लग्नं तमेव तत्रापि मासषट्सन्तवर्तिनम्। नागतः पुरोऽस्तीति वदन्तः पुनरभ्यधुः ॥
श्रुत्वा दूरतरं तं च लग्नमाविग्नचेतसि । ततः कलिङ्गसेनायां तन्महत्तरकोऽभ्यधात् ॥
प्रेक्ष्यो जनोऽनुकूलः प्राग्येन स्यादेतयोः शुभम् । यावत्कालं हि दंपत्योः किं चिरेणाचिरेण वा ॥
एतन्महत्तरवचः श्रुत्वा सर्वेऽपि तत्क्षणम् । सदुक्तमेवमेवैतदिति तत्र बभाषिरे ॥
यौगन्धरायणोऽक्ष्याह हा कुलग्ने कृते च नः। कलिङ्गदत्तः संबन्धी राजा खेदं व्रजेदिति ॥
ततः कलिङ्ग सेनापि सर्वांस्तानवशा सती । यथा भवन्तो जानन्तीत्युक्त्वा तूष्णीं बभूव सा ॥
तदेव च वचस्तस्या गृहीत्वामद्य तां ततः। यौगन्धरायणो राज्ञः पार्श्व सगणको ययौ। ॥
तत्र तस्मै तदावेद्य वत्सेशाय तथैव सः। युक्त्या च तमवस्थाप्य स जगाम निजं गृहम् ॥
सिद्धकालातिपातश्च कार्यशेषाय तत्र सः । योगेश्वराख्यं सुहृदं सस्मार ब्रह्मराक्षसम् ॥
स पूर्वप्रतिपन्नस्तं स्वैरं ध्यानादुपस्थितः । राक्षसो मत्रिणं नत्वा किं स्मृतोऽस्मीत्यवोचत ॥
ततः स मत्री तस्मै तं कृत्तं व्यसनदं प्रभोः। कलिङ्गसेनावृत्तान्तमुक्त्वा भूयो जगाद तम् ॥
कालो मया हृतो मित्र तन्मध्ये त्वं स्वयुक्तितः । वृत्तं कलिङ्गसेनायाः प्रच्छन्नोऽस्या निरूपयेः ॥
विद्याधरादयस्तां हि छन्नं वाञ्छन्ति निश्चितम् । यतोऽन्या तादृशी नास्ति रूपेणास्मिञ्जगत्रये ॥
अतः केनापि सिद्धेन सङ्ग विद्याधरेण वा । गच्छेसा यदि तच्च त्वं पश्येस्तद्भद्रकं भवेत् ॥
अन्यरूपागतश्चात्र लक्ष्यस्ते दिव्यकामुकः। स्वापकाले यतो दिव्याः सुप्ताः स्वे रूप आसते ॥
एवं स्वदृष्टितस्तस्या दोषोऽस्माभिर्विलोक्यते । तस्यां राजा विरज्येच तत्कार्यं निर्वहेच नः ॥
इत्युक्तो मत्रिणा तेन सोऽब्रवीद्राराक्षसः। युक्याहमेव किं नैतां ध्वंसयामि निहन्मि



१. ‘पुस्तकान्तरेऽस्माच्लेकात्पूर्वं ‘राजन्कलिङ्गदत्तस्य राज्ञस्तक्षशिलापतेः ॥
अयं त्रुटितोत्तरार्धः श्लोको वर्तते.