पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ३ ।]
१३१
मदनमझुकालम्बकः ६ ।

ययौ च स वणिक्सार्थः पुरस्कृत्याटवीपथम् । बहुशुरुकभयत्यक्तमार्गान्तरजनाश्रितम् ॥ १०५
दिनैः प्राप्याटवीद्वारं सायं साथै कृतस्थितौ। चक्रे कृतान्तदूतीव शब्दं भयकरं शिवा ॥ १०६
तदभिी वणिग्लोके चौराद्यापातशङ्किनि । हते गृहीतशस्त्रेषु सर्वतो रिपुरक्षिषु ॥ १०७
ध्यान्ते धावति दस्यूनामग्रयायिबलोपमे । कीर्ति सेना तदालोक्यै पुंवेषा सा व्यचिन्तयत् ॥ १०८
अहो दुष्कृतिनां कर्म संतानेनैव वर्धते । पश्य श्वशृकृता व्यापदिहापि फलिता मम ॥ १०९
प्रथमं मृत्युनेवाहं श्वधृकोपेन भक्षिता । प्रविष्टा भूदं पश्चाद्भर्भवासमिवापरम् ॥ ११०
दैवात्ततोऽपि निष्क्रान्ता जातेव पुनरप्यहम् । इहाद्यागत्य संप्राप्ता भूयो जीवितसंशयम् ॥ १११
चैौरैर्यदि हतास्मीह तच्छशैर्मम वैरिणी । अन्यासक्ता गता कापीत्यभिधास्यति मे पतिम् ॥ ११२
स्त्रीति ज्ञातास्मि केनापि हृतवस्त्रान्तरा यदि । ततो मृत्युर्मम श्रेयान्न पुनः शीलविप्लवः ॥ ११३
तेन चात्मैव मे रक्ष्यो नापेक्ष्योऽयं सुहृद्वणिकू । सतीधर्मो हि सुस्त्रीणां चिन्त्यो न सुहृदादयः ॥ ११४
इति निश्चित्य सा प्राप चिन्वती तरुमध्यगम् । गर्ते गृहकृतिं दत्तं कृपयेवान्तरं भुवा ॥ ११५
तत्र प्रविश्य चाच्छाद्य तृणपर्णादिभिस्तनुम् । तस्थौ संधार्यमाणा सा पतिसंगमवाञ्छया ॥ ११६
ततो निशीथे सहसा निपत्यैवोद्यतायुधा । चौरसेना सुमहती सार्थं वेष्टयति स्म तम् ॥ ११७
निनदद्दस्युकालाणागं शत्रज्वालाचिरप्रभम् । ततः सरुधिरासारं तत्राभूद्युद्धदुर्दिनम् ॥ ११८
हत्वा समुद्रसेनं च सानुगं तं वणिक्पतिम् । बलिनोऽथ ययुश्चौरा गृहीतधनसंचया ॥ ११९
तदा च कीर्तिसेना सा भृतकोलाहला बलात् । यन्न मुक्तासुभिस्तत्र कारणं केवलो विधिः ॥ १२०
ततो निशायां यातायामुदिते तिग्मतेजसि । निर्जगाम च स तस्माद्भर्ताद्विटपमध्यतः ॥ १२१
कामं भवैकभक्तानामविस्खलिततेजसाम् । देवता एव साध्वीनां त्राणमापदि कुर्वते ॥ १२२
यत्तत्र निर्जनेऽरण्ये सिंहो वटुपि तां जहौ । न परं यावदभ्येत्य कुतश्चित्कोऽपि तापसः ॥ १२३
पृष्ठोदन्तां समाश्वास्य जलपानं कमण्डलोः। दत्त्वोपदिश्य पन्थानं तस्याः कापि तिरोदधे ॥ १२४
ततस्तृप्तामृतेनेव क्षुत्पिपासाविनाकृता । तापसोक्तेन मार्गेण प्रतस्थे सा पतिव्रता ॥ १२५
अथास्तशिखरारूढं प्रसारितकरं. रविम् । रात्रिमेकां क्षमस्वेति वदन्तमिव वीक्ष्य सा ॥ १२६
महतोऽरण्यवृक्षस्य गृहभं मूळकोटरम् । विवेश पिदधे चास्य द्वारमन्येन दारुणा ॥ १२७
प्रदोषे च ददर्शात्र द्वारच्छिद्रान्तरेण सा । राक्षसीमागतां घोरां बालकैरन्वितां सुतैः ॥ १२८
तीर्णान्यविपदद्याहमनया भक्षितेति सा । त्रस्ता यावत्तरौ तावदारूढा तत्र राक्षसी ॥ १२९
अन्वारूढाश्च तत्पुत्रास्तत्र तां किल राक्षसीम् । अब्रुवन्नस्व नः किंचिद्भक्ष्यं देहीति तत्क्षणम् ॥ १३०
ततः सा राक्षसी बालांस्तानुवाचाद्य पुत्रकाः। महसूमशानं गत्वापि भक्ष्यं नासादितं मया ॥ १३१
याचितो डाकिनीसंघोऽप्यत्र भागमदन्न मे । तत्खेदादथ विज्ञष्य याचितो भैरवो मया ॥ १३२
स च नामान्वयौ पृष्ट्वा देवो मामेवमादिशत् । भयंकारि कुलीनासि खरदूषणवंशजा ॥ १३३
तदितो नातिदूरस्थं वसुदत्तपुरं व्रज । तत्रास्ते वसुदत्ताख्यो राजा धर्मपरो महान् ॥ १३४
यः कृत्स्नामटवीमेतां पर्यन्तस्थोऽभिरक्षति । स्वयं गृह्वाति शुल्कं च निगृह्वति च तस्करान् ॥ १३५
तस्याटव्यां च मृगयाश्रमसुप्तस्य भूपतेः । अज्ञातैव प्रविष्टान्तः कर्णं शतपदी लघु ॥ १३६
सा च कालेन बहुशः प्रसूतास्य शिरोन्तरे । तेन रोगेण राजासौ नायुशेषोऽद्य वर्तते ॥ १३७
वैद्याश्चास्य न तं व्याधिं विदन्त्यन्योऽपि कोऽपि चेत् । न ज्ञास्यति ततश्चैष नैरल्पैर्विपत्स्यते ॥ १३८
तस्य मांसानि भुञ्जीथा विपन्नस्य स्वमायया । भक्षितैस्तैर्हि षण्मासान्परितृप्ता भविष्यसि ॥ १३९
इत्थं मे भैरवेणापि संविभागः ससंशयः । कालवांश्चाद्य विहितस्तत्पुत्राः किं करोम्यहम् ॥ १४०
एवं तयोक्ता राक्षस्या पुत्रास्ते तामथाब्रुवन् । शतापनीते रोगेऽस्मिन्कि स राजाम्ब जीवति ॥ १४१
कथं च तादृशो रोगो वद तस्यापनीयते । एवमुक्तवतस्तान्सा तनयान्राक्षसी जगौ ॥ १४२
ज्ञातापनीते रोगेऽस्मि जीवत्येव स भूपतिः। भूयतां च यथा सोऽस्य महारोगोऽपनीयते ॥ १४३