पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
[ आदितस्तरङ्गः २
कथासरित्सागरः

मित्रेण तेन साकं च गजारूढः ससैनिकः । गच्छन्निनुमतीतीरं प्राप्य सायं समावसत् ॥१२०
तत्र चन्द्रोदये पानमासेव्य शयनं श्रितः । अर्थितो निजया धात्र्या कथां वक्तुं प्रचक्रमे ॥ १२१
उपक्रान्तकथो जहे अन्तो मत्तश्च निद्रया । धात्री च तद्वत्सोऽप्यासीत्नेहाज्जाग्रद्वणिक्सुतः ॥ १२२
ततः सुप्तेषु चान्येषु त्रीणामिव मिथः कथा । गगने शुश्रुवे तेन वणिक्पुत्रेण जाग्रता ॥ १२३
अनाख्याय कथां सुप्तः पापोऽयं तच्छपाम्यहम् । परिद्रक्ष्यत्यसौ हारं प्रातस्तं चेद्भहीष्यति ॥ १२४
कण्ठलग्नेन तेनेष तत्क्षणं मृत्युमाप्स्यति । इत्युक्त्वा विररामैका द्वितीया च ततोऽब्रवीत् ॥ १२५
अतो यद्ययमुत्तीर्णस्तद्रक्ष्यत्याघ्रपादपम् । वियोक्ष्यते फलान्यस्य ततः प्राणैर्विमोक्ष्यते ॥ १२६
इत्युक्त्वा व्यरमसापि तृतीयाभिदधे ततः । यथैतदपि तीर्थोऽयं तद्विवाहकृते गृहम् ॥ १२७
प्रविष्टश्चेत्तदेवास्य हन्तुं पृष्ठे पतिष्यति । उक्वेति न्यघृतत्सापि चतुर्थं व्याहरत्ततः ॥ १२८
अतोऽपि यदि निस्तीर्णस्तन्नक्तं वासवेश्मनि । प्रविष्टः शतकृत्वोऽयं श्रुतं सद्यः करिष्यति ॥ १२९
शतकृत्वोऽपि यद्यस्य जीवेति न वदिष्यति । कश्चिदत्र ततश्चैष मृत्योर्वंशमुपैष्यति ॥ १३०
येन चेदं श्रुतं सोऽस्य रक्षार्थं यदि वक्ष्यति । तस्यापि भविता मृत्युरित्युक्त्वा सा न्यवर्तत ॥ १३१
वणिक्सुतश्च तत्सर्वं श्रुत्वा निषीतदारुणम् । स तस्य राजपुत्रस्य स्नेहोद्विग्नो व्यचिन्तयत् ॥ १३२
उपक्रान्तामनाख्यातां धिक्कथां यद्यलक्षिताः । देवताः श्रोतुमायाताः शपन्यस्तु कुतूऋलात् ॥ १३३
तद्देत्तस्मिन्मृते राजसुते कोऽर्थो ममासुभिः । अतोऽयं रक्षणीयो मे युक्या प्राणसमः सुहृत् ॥ १३४
वृत्तान्तोऽपि न वाच्योऽस्य मा भूदोषो ममाप्यतः । इत्यालोच्य निशां निन्ये स कृच्छेण वणिक्सुतः ॥ १३५
राजपुत्रोऽपि स प्रातः प्रस्थितस्तत्सखः पथि । ददर्श पुरतो हरं तमादातुमियेष च ॥ १३६
ततोऽब्रवीद्वणिक्पुत्रो हरं मा स्म ग्रहीः सखे । मायेयमन्यथा नैते पश्येयुः सैनिकाः कथम् ॥ १३७
तच्छुत्वा तं परित्यज्य गच्छन्नने ददर्श सः । आम्रवृक्षे फलान्यस्य भोक्तुं चैच्छनृपात्मजः ॥ १३८
वणिक्पुत्रेण च प्राग्वत्ततोऽपि स निवारितः । सान्तःखेदः शनैर्गच्छन्प्राप श्वशुरवेश्म तत् ॥ १३९
तत्रोद्वाहकृते वेश्म विशन्द्वारान्निवर्तितः । तेनैव सख्या यावच्च तावत्तत्पतितं गृहम् ॥ १४०
tतः कथंचिदुत्तीर्णः किंचित्सप्रत्ययो निशि । निवासकं विवेशान्यं राजपुत्रो वधूसखः ॥ १४१
तत्र तस्मिन्वणिक्पुत्रे प्रविश्यालक्षितस्थिते । शतकृत्वः शृतं चक्रे शयनीयाश्रितोऽथ सः ॥ १४२
शतकृत्वोऽपि तस्यात्र नीचैर्जीवेत्युदीर्य सः । कृतकार्यो वणिक्पुत्रो हृष्टः स्वैरं बहिर्ययौ ॥ १४३
निर्यान्तं तमपश्यञ्च राजपुत्रो वधूसखः। ईयविस्मृततत्नेहः क्रुद्धो द्वाःस्थानुवाच च ॥ १४४
पापात्मायं रहःस्थस्य प्रविष्टोऽन्तःपुरं मम । तद्वद् स्थाप्यतां यावत्प्रभातेऽसौ निगृह्यते ॥ १४५
तद्वद् रक्षिभिर्बद्ध निशां निन्ये वणिक्सुतः । प्रातर्मध्यभुवं तैश्च नीयमानोऽब्रवीत्स तान् ॥ १४६
आदौ नयत मां तावद्राजपुत्रान्तिकं यतः । वक्ष्यामि कारणं किंचित्ततः कुरुत मे वधम् ॥ १४७
इत्युक्तैस्तेन तैर्गत्वा विज्ञप्तः स नृपात्मजः। सचिवैर्बाधितश्चान्यैस्तस्यानयनमादिशत् ॥ १४८
आनीतः सोऽब्रवीत्तस्मै वृत्तान्तं राजसूनवे । प्रत्ययाद्हपातोत्थान्मेने सत्यं च सोऽपि तत् ॥ १४९
ततस्तुष्टः समं सख्या वधमुक्तेन तेन सः। आययौ राजतनयः कृतदारो निजां पुरीम् ॥ १५०
तत्र सोऽपि सुहृत्तस्य कृतदारो वणिक्सुतः। स्तूयमानगुणः सर्वैर्जनैरासीद्यथासुखम् ॥ १५१
एवमुच्छलला भूत्वा स्वनियन्तृप्रमाथिनः । राजपुत्रा न मन्यन्ते हितं मत्ता गजा इव ॥ १५२
वेतालैस्तैश्व का मैत्री ये विहस्य हरन्त्यसून् । तद्राजपुत्रि सख्यं मे मा स्म व्यभिचरः सदा ॥ १५३
इति श्रुत्वा कथामेतां हथै सोमप्रभामुखात् । कलिङ्गरसेना सस्नेहं तां सखीं प्रत्यभाषत ॥ १५४
एते पिशाचा न त्वेते राजपुत्रा मताः सखि । पिशाचदुईंहकथामहमाख्यामि ते श्रुणु ॥ १५५
यज्ञस्थलाख्ये कोऽप्यसीदंप्रहारे पुरा द्विजः । स जातु दुर्गतः काष्ठान्याहर्तुमटवीं ययौ॥ १५६
तत्र काष्ठं कुठारेण पाटयमानं विधेर्वशात् । आपत्य तस्य जायां भिस्वान्तः प्रविवेश तत् ॥ १५७
ततः स प्रस्रवद्रक्तो दृष्ट्वा केनापि मूञ्छितः। उत्क्षिप्यानीयत गृहं पुंसा प्रत्यभिजानता ॥ १५८