पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः १।]
११९
मदनमझुकालम्बकः ६ ।

कान्तयान्तः किलापूर्णतुङ्गस्तनतटान्तया । लावण्याम्घतरङ्गिण्या हृतः स्यादत्मनः प्रभुः ॥ ६५
चुक्षुभे किं न शर्वोऽपि पुरा दृष्ट्वा तिलोत्तमाम् । धात्रा गृहीत्वा रचितामुत्तमेभ्यस्तिलं तिलम् ॥ ६६
तपश्च मेनकां दृष्ट्वा विश्वामित्रो न किं जहौ । शर्मिष्ठारूपोंभाच ययातिर्नाप्तवाञ्जराम् ॥ ६७
अतो विद्याधरयुवा नैवायमपराध्यति । त्रिजगत्क्षोभशक्तेन रूपेणाप्सरसा हृतः ॥ ६८
इयं तु स्वर्वधूः पापा हीनासक्तापराधिनी। प्रवेशितः सुरान्हित्वा यायमिह नन्दने ॥ ६९
इत्यालोच्य विमुच्यैनं विद्याधरकुमारकम् । अहल्याकामुकः सोऽस्यै शापमप्सरसे ददौ ॥ ७०
पापे प्रयाहि मानुष्यं प्राप्य चायोनिजां सुताम् । दिव्यं कृत्वा च कर्तव्यमेष्यसि द्यामिमामिति ॥ ७१
अत्रान्तरे च सा तस्य राज्ञस्तक्षशिलापुरि । रासी कलिङ्गदत्तस्य तारात् ययावृतुम् ॥ ७२
तस्याः सुरभिदत्ता सा शशापच्युताप्सराः । संबभूवोदरे देव्या देहसौन्दर्यदायिनी ॥ ७३
तदा च नमसो ऽथ ज्वालां देवी ददर्श सा । तारदत्त किल स्वप्ने प्रविशन्तीं निजोदरे ॥ ७४
प्रातश्चावर्णयखनं भनें तं सा सविस्मया। राज्ञे कलिङ्गद्त्तय सोऽपि प्रीतो जगाद ताम् ॥ ७५
देवि दिव्याः पतन्त्येव शापान्मानुष्ययोनिषु । तञ्जाने देवजातीयः कोऽपि गर्भ तवार्पितः ॥ ७६
विचित्रसदसत्कर्मनिबद्धः संचरन्ति हि । जन्तवस्त्रिजगत्यस्मिञ्शुभाशुभफलाप्तये ॥ ७७
इत्युक्ता भूभृता राज्ञे सा प्रसङ्गादुवाच तम् । सत्यं कथैव बलवद्गदयिं शुभाशुभम् ॥ ७८
तथा चेदमुपोद्धातं श्रुतं वकम्यत्र ते श्रुणु । अभवद्धर्मदत्ताख्यः कोशलाधिपतिनृपः॥ ७९
नागश्रीरिति. तस्यासीद्री या पतिदेवता । भूमावरुन्धंती ख्याता रुन्धत्यपि सतीधुरम् ॥ ८०
काले गच्छति तस्यां च देव्यां तस्य च भूपतेः। अहमेषा समुत्पन्ना दुहिताहितसूदन ॥ ८१
ततो मय्यतिबालायां देव सा जननी मम । अकस्मात्पूर्वजातिं स्वां स्मृत्वा स्वपतिमब्रवीत् ॥ ८२
राजन्नकाण्ड एवाश्च पूर्वजन्म स्मृतं मया । अप्रीत्यै तदनाख्यातमाख्यातं मृतथे च मे ॥ ८३
अशङ्कितं स्मृता जातिः स्यादाख्यातैव मृत्यवे । इति ह्याहुरतो देव मय्यतीव विषादिता ॥ ८४
इत्युक्तः स तया पल्या राजा तां प्रत्यभाषत । प्रिये मयापि प्राग्जन्म त्वयेव सहसा स्मृतम् ॥ ८५
तान्ममाचक्ष्व तावत्त्वं कथयिष्याम्यहं च ते । यदस्तु कोऽन्यथा कर्तुं शक्तो हि भवितव्यताम् ॥ ८६
इति सा प्रेरिता तेन भनें राज्ञी जगाद तम् । निर्बन्धो यदि ते राजञ्श्रुणु तfई वदाम्यहम् ॥ ८७
इहैव देशे विप्रस्य माधवाख्यस्य कस्यचित् । गृहेऽहमभवं दासी सुवृत्ता.पूर्वजन्मनि ॥ ८८
देवदासाभिधानश्च पतिरत्र ममाभवत् । कस्याप्येकस्य वणिजः साधुः कर्मकरो गृहे ॥ ८९
तावावामवसवात्र कृत्वा गेहं निजोचितम् । स्वस्वस्वामिगृहानीतपक्वान्नकृतवर्तनौ ॥ ९०
वारिधानी च कुम्भश्च मार्जनी मञ्चकस्तथा । अहं च मतिश्चेति युग्मत्रितयमेव नौ ॥ ९१
अकलिप्रसरे गेहे संतोषः सुखिनोरभूत् । देवपित्रतिथिप्रत्तशेषं प्रमितमश्नः ॥ ९२
एकैकतोऽधिकं किंचिद्यदाच्छादुनमप्यभूत् । सुदुर्गताय कस्मैचिन्तदवाभ्यामीयत ॥ ९३
अथात्रोदभवत्तीव्रो दुर्भिक्षस्तेन चावयोः। भृत्यन्नमन्वहं प्राप्यमपमल्पमुपानयत् ॥ ९४
ततः क्षुत्क्षामवपुषोः शनैर्नाववसीदतोः । कदाचिदागादहारकाले क्लान्तोऽतिथिर्धजः ॥ ९५
तस्मै निःशेषमावाभ्यां द्वाभ्यामपि निजाशनम् । प्राणसंशयकालेऽपि दत्तं यावच्च यच्च तत् ॥ ९६
भुक्त्वा तस्मिन्गते प्राणा भर्तारं मे तमत्यजन् । अर्थिन्यस्यादरो नास्मास्विति मन्युवशादिव ॥ ९७
ततश्चाहं समाधाय पत्ये समुचितां चिताम् । आरूढा चावरूढश्च विपलारो ममास्मनः ॥ ९८
अथ राजगृहे जाता जाताहं महिषी तव । अचिन्त्यं हि फलं सूते सद्यः सुकृतपापः ॥ ९९
इत्युक्तः स तया राज्ञा धर्मदत्तो नृपोऽब्रवीत् । एहि प्रिये स एवाहं पूर्वजन्मपतिस्तव ॥१००
वणिक्कर्मकरोऽभूवं देवदासोऽहमेव सः । एतदेव मयाप्यद्य प्राक्तनं जन्म हि स्मृतम् ॥ १०१
इत्युक्त्वा स्वान्यभिज्ञानान्युदीर्य स तया सह । देव्या विषण्णो हृष्टश्च राजा सद्यो दिवं गतः ॥ १०२
एवं तयोश्च सरिपत्रोओंकान्तरमुपेयुषोः । मातुः स्वसा वर्धयितुं सामनैषीन्निजं गृहम् ॥ १०३