पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यरहस्यविवृतिः।-

णाऽऽह---मा गृधो माऽभिकाङ्क्षीः । सिदित्यनर्थकोऽप्यर्थको वा । कस्यापि स्वस्य परस्य वा धनं भोग्यविषयजातम ब्राह्मणाः पुत्रैषणायाश्च वितैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षीर, चरन्तीतित्यक्तेषणस्यैव संन्यासेऽधिकारात् । यद्वा स्विदिति वितर्के,लोके कस्येद धनं न कस्यापि न हि लोके नियतस्वामिकं किंचिदपि विस्यःजातं दृश्यते । प्रश्न वा । अधिष्ठानेनाध्यस्तस्य स्वस्वामिभावायोगात्कस्येदं धनमित्यर्थः । अतो माऽभिकाङ्क्षीः । केवलेच्छयैव विषयाणामवश्यप्राप्त्यभावान्ममेदमिति रक्षितानां च स्थैर्याभावाद्विनाशे दुःखप्राप्तेश्च विषयेच्छात्यागपूर्वकसंन्यासिना ब्रह्मणः सर्वान्तरस्थत्वं ज्ञेयमिति भावः। अथवा स्वात्मना विभुनाऽधिष्ठानेन ज्ञातेन रज्ज्वादिनाऽध्यस्तसर्पादिभासवदध्यस्तजगद्धास आच्छादिते दूरीकृते सति स्वातिरिक्तस्य विषयस्याभावादिच्छानुत्पत्तेः स्वात्मनैव स्वसुखमनुभवनीयमिति तात्पर्यम् । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठ इति श्रुतेः । वासिष्ठे समाध्युत्थितस्य कचस्य-किं करोमि का गच्छामि किं गृह्णामि त्यजामि किम् । आत्मना पूरितं सर्व महाकल्पाम्बुना यथेति वाक्याच्च।।१॥ अत्रायं संग्राहकः श्लोकः- छाद्यं मयेशेन समस्तमेतज्ज्ञात्वेति संन्यस्य सुखं हि मोग्यम् । धनस्य गृद्धिं न कुरु वमन्यत्स्वतोऽस्ति किं कस्य धनं त्रिलोक्याम् ॥१॥

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।
संपूर्णः प्रथमो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

त्यक्तैपणस्य संन्यासेऽधिकार इति श्रुत्वेषणात्यागसाधनं प्रष्टुकामस्य श्रोतुः प्रश्नात्पूर्वमेव सर्वज्ञा श्रुतिश्चित्तशुद्धिरीषणात्यागोपाय इत्यभिप्रायेण चित्तशुद्धयर्थं त्वया तावत्कर्माणि कर्तव्यानीत्युपदिशति । अथवाऽऽत्मतत्त्वमुपक्रम्य स्वानुभवप्रदर्शनेन श्रोतारमभिमुखीकृत्य प्रष्टुमिच्छन्तं तमुपदेष्टुकामा श्रुतिः शुद्धचित्तस्यैव श्रवणेऽधिकाराधिकारसिद्धये पूर्वं तत्साधनमुपदिशति--कुर्वन्निति । एवशब्दो भिन्नक्रमः । इह नृलोके कर्माण्येव केवलानि न तु फलेच्छां कुर्वन् । कर्मण्येवाधिकारस्ते मा फलेषु कदाचनेति भगवतोक्तत्वात् । फलेच्छेव बन्धनकर्त्रीति भावः ।त्वं जिजीविषेज्जिजीविषेः पुरुषव्यत्ययश्छन्दसः । भवाञ्जिजीविषेदिति बा । शतं समा इत्युपलक्षणं सर्वस्य पुरुपायुषस्य यावदायुरित्यर्थः ।