पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शंकरानन्दकृत-

न्तृत्वात्तदीयाभिप्रायोऽस्यास्तीति मनीषी । परिभूः परितः समःताद्भवति विविधै रूपैरविद्यावशादिति परिभूरविद्यां वा परिमावयतीति परिभूः स्वयंभूः कारणान्तरनिरपेक्षः स्वयमेव भवतीति स्वयंमूरविद्याशाययाथातथ्यतःसाध्यसाधनादिप्रतिनियतस्वरूपेणार्थाश्वतनाचेतनात्मकविविधपदार्थान्व्यदधाद्विविधं कल्पितवान् । ज्योतिष्टोमे-नैव स्वर्गो न कृष्यादिनेत्यादिना शाश्वतीभ्यः समाभ्यः संवत्सराभिधाम्योऽस्मिन्नस्मिन्काल इदमिदं मविष्यतीत्यादिनेत्यर्थः ॥८॥

इदानीं यस्तुक्तमात्मतत्वं न जानाति न च संन्यासेऽधिकारी संसारे च नात्यन्तं प्रीतिर्मास्तमुररीकृत्य द्वितीयं मन्त्रं चार्थाद्याकर्तुमाह अन्धंतमः । अहंममाभिमानरूपं प्रविशन्ति प्रकर्षणाधिगच्छन्ति । के, ये धनाभिलाषिणः प्रसिद्धा द्वितीये मन्त्रेऽधिकारिणोऽविद्यां कर्मविधिनिघ्पाद्यं ज्योतिष्टोमादि उपासते तदेकनिष्ठाः सन्तो विद्यामनुतिष्ठन्ति ।ननु तर्हि त्याज्यं कर्मोपास्याश्च देवता अथवाऽहं ब्रह्मास्मीति वक्तव्यमित्यत आह-ततस्तस्मादुक्ताद्भूय इवाधिकमिव ते देवतोपासका मुखतो ब्रह्मवादिनो वाऽनुत्पन्नसाक्षात्काराः कर्मत्यागिनस्तमोऽहंममाभिमानरूपं प्रविशन्तीत्यनुषङ्गः । य उ ये तु विद्यायां देवताज्ञाने केवल आत्मज्ञाने वा रतास्तदेकनिष्ठाः ॥ ९ ॥

 ननूभयोनिन्दायामुभयमप्यफलमित्यत आह-अन्यदेव । कर्मणः फलात्पितृयाणलक्षणात्पृथगेव देवयानलक्षणमात्मप्राप्तिलक्षणं वा । अन्यच्छब्देन सफलत्वमेवशब्देनाङ्गाङ्गिभावनिषेध आहुः कथयन्ति । विद्यया देवताज्ञानेनाऽऽत्मज्ञानेन वाऽन्यद्विद्याफलात्पृथग्भूतम् । अत्रैवकाराभा- वादात्मज्ञानोत्पादकत्वमपि कर्मणामवगम्यते । आहुः कथयन्त्यविद्यया द्वितीयमन्त्रोक्तेन कर्मणेत्यस्ति विद्याकर्मणोः फलम् । नचात्राङ्गाङ्गिभावोऽपि शङ्कनीयः । अन्यदन्यच्च तदित्यनेन प्रकारेण शुश्रुम श्रुतवन्तः । मन्त्रद्रष्टुरिदं वाक्यम् । धीराणां पूर्वोत्तरतन्त्रन्यायकुशलानां वेदविदाम्ता।नाह—ये गुरवो नोऽस्मभ्यमेतद्बह्म कर्मसहितं विचचक्षिरे व्याख्यात- वन्तः ॥ १० ॥ एवं पक्षद्वयं च वैधत्वादिना सफलं चाभिधायेदानी देवताज्ञानस्य शाब्दस्य वा ब्रह्मज्ञानस्य कर्मणा सह समुच्चयमाह-विद्यां च देवता- १ क. पक्ष द्वयं च द्विविधं विदित्वा स ।