पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ ईशान शिवगुरुदेवपद्धतौ रुद्रमातृगणानां च यक्षग्रह सुरद्विषाम् । रक्षसामपि नागानां प्राग़ीशानादिकं क्रमात् ।। १७४ ।। नक्षत्राणां च तन्मध्ये चैतेषां मध्यतः पुनः । राशिभ्यः पुनरीशान्ते वह्नौ विश्वेभ्य इत्यपि ॥ १७५ ।। नैर्ऋत्यां क्षेत्रपालाय दुर्गायै वायुगोचरे । एवमन्तर्बलिं क्षिप्त्वा द्वितीये मण्डले पुनः ।। १७६ ॥ इन्द्रादिभ्यो यथापूर्वं दशदिक्षु बलिं क्षिपेत् । विंसृज्यैतान् पुनर्बाह्ये मण्डलादेर्वलिं क्षिपेत् ॥ १७७ || सर्वतो विकिरन् दिक्षु वायसादिभ्यः समयभेदिभ्यः ठठ । बलिमन्त्रानथो हरेत् । पुनः प्राङ्कणभागान्ते मण्डले तु बलिं क्षिपेत् ॥ १७८ ॥ ये रुद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः । सौम्याश्चैव तु ये केचित् सौम्यस्थाननिवासिनः ॥ १७९ ॥ मातरो रौद्ररूपाश्च गणानामधिपाश्च ये । सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं वलिम् ॥ १८० ॥ सिद्धिं यच्छन्तु मे क्षिप्रं भयेभ्यः पान्तु मां सदा । “सर्वेभ्यो भूतेभ्यो नमं” इति बलि क्षिप्त्वा पुनश्च योगिन्यो भीषणा रौद्रा वेताला ब्रह्मराक्षसाः ॥ १८१ ॥ आगत्य प्रतिगृह्णन्तु शिवेच्छानुविधायिनः । मया दत्तं बलिं क्षिप्रं भयेभ्यः पान्तु मां सदा ॥ १८२ ॥ “ओं हां हः हुं फट् ।”अनेन च बलिं क्षिपेत् । दत्त्वा बलिं ततः पादौ प्रक्षाल्याचम्य वाग्यतः । नमस्कृत्य महादेवं कर्म कुर्याद् यथोत्तरम् || १८३ ॥ शैवाग्निकल्पाधिकारः । [सामान्यपादः