पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२६ ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः रेचकात् पिङ्गलामार्गानिस्सार्याग्नी नियोजयेत् ।

भौतिकं दैवतं चेत्थं जाठरं चानलत्रयम् ॥ ९८ ॥ 

एकीकृत्य षडङ्गेन ओं रां हृदयाय नमः । ओं री शिरसे स्वाहा । ओं रूं शिखायै वषट् । ओं ३ कवचाय हुं। ओं रं नेत्रत्रयाय नमः । ओं रः अस्त्राय फट्। तारं हौं शक्तये वषट् ।

इति धेन्वामृतीकृत्य कवचेनावकुण्ठ्य तु ॥ ९९ ॥ 

संरक्ष्यास्त्राद्धृदाभ्यर्च्य तमुद्यम्य करद्वयात् । स्थित्वा जानुद्वयेनाथ कुण्डस्योपरि देशिकः ॥ १० ॥

क्षोभार्थः त्रिः परिभ्राम्य देवीदेवौ निरम्बरौ ।
ध्यात्वेशानशिरस्कौ तौ
ओं हां शिवबीजाय नमः।

शिवबीज़मिति स्मरन् ॥ १०१ ॥ आत्माभिमुखमाग्निं तं देव्या गर्भपथा क्षिपेत् ।

विकीर्णमेकीकृत्यास्त्रान्नाभौ तत्संपुटं नयेत् ॥ १०२ ॥
ओं हां वागीश्वर्यै नमः। 

परिधाप्येति वस्त्रे तु शौचाचमनकेऽपि च । कवचेनेन्धनश्छन्नं पवित्राज्ज्वालयेदमुम् ॥ १०३ ॥

ओं है। हां गर्भाग्नये नमः।

इत्यभ्यर्च्याथ संशुद्धं कुशकङ्कणकं करे ।

दक्षिणे तु निबध्नीयाद् वागीश्वर्यास्तु कौतुकम् ॥ १०४ ॥ 

ओं सद्योजाताय नमः। इति सद्यं समावाह्य स्वाहान्तं हृदयेन तु ।

पञ्चाहुतीस्तिलैर्हुत्वा गर्भाधानं समापयेत् ॥ १०५ ॥
ओं ही वामदेवाय नमः। 

• 'बैन्दवं चे' ख.. 'बैन्दवं चे' क. पाठः. २. 'प्य तु व', 'प्ये तु व', ३. हौं'