पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७ ॥ नैमित्तिककाम्यविधिः] पूर्वार्धे अष्टमः पटलः तत्र पञ्चशतं दीपास्त्वेवं स्यादुत्तमोत्तमम् ।

षड्भिर्द्रोणैश्चतुष्कालमभ्यर्च्य विनिवेदयेत् ॥ ८६ ॥
सहोमं द्विशतं दीपाः स्युर्गीतबलिनर्तनैः । 

कुर्यात् पूर्वानुसारेण तत् स्यादुत्तममध्यमम् ॥ ८७ ।।

पञ्चद्रोणैश्चतुष्कालं निवेद्यं पूजनं तथा । 

अष्टोत्तरशतं दीपैर्गीतवाद्यबलिक्रियाः ।। ८८ ॥ अग्निकार्यं च कुर्वीत स्यादेवं तूत्तमाधमम् । सचतुर्द्रोणनैवेद्यं चतुष्कालोचितार्चनम् ॥ ८९ ।।

गीताद्यं बलिहोमौ च प्रदीपाः स्युंश्च सप्ततिः ।
मध्यमोत्तममेवं स्यान्मध्यमध्येमथोच्यते ॥ ९० ॥
भारार्धतण्डुलैः प्राग्वन्नैवेद्यं चार्चनादिकम् ।
मध्याह्न एव होमः स्याद् द्विकालं नर्तनादिकम् ॥ ९१ ॥
चत्वारिंशत् प्रदीपाः स्युर्मध्यमध्ये बलिस्तथा ।
खारितण्डुलनैवेद्यं चतुष्कालार्चना बलिः ॥ ९२ ॥

होमो द्वादश दीपाः स्युर्गीताद्यं मध्यमाधमम् ।

सायंप्रातस्त्वाढकाभ्यां शिवं तन्मध्याह्ने स्यादह्नि वेदप्रदीपाः । 

रात्रावष्टौ स्युस्त्रिकालं च पूजा पश्चातोयैः स्यात् कनिष्ठोत्तमाख्ये ॥ ९३ ।।

प्रातः पात्रं सायमप्यत्र पात्रं स्यान्मध्याहे त्वाढकं चाह्नि दीपौ ।
चत्वारो वै रात्रिदीपास्त्रिकालं पूजेत्युक्तं मध्यमं यत् कनिष्ठे ॥ ९ ॥

सायंप्रातः प्रतिप्रस्थद्वयनैवेद्यमर्चनम् ।। ९५ ॥ दीपोऽह्रि निशि दीपावित्युक्तं स्यादधमाधमम् । नित्यनैवेद्यप्रकरणम् । अष्टद्रोणं समारभ्य यावद् द्वादशभारकम् ॥ ९६ ॥ नैमित्तिकं स्यान्नैवेद्यं नवधात्रापि पूर्ववत् ।

उत्तमोत्तमपूर्व तु पूजां चैवं समूहयेत् ॥ ९ ॥