पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

स्रुक्स्रुवाधिकारः] पूर्वार्धे सप्तमः पटलः। सर्वे सर्वेषु वा पूज्यास्तत्तत्कर्मानुसारतः ।

इति कुण्डमण्डलविधिः प्रधानतः कथितः शिवादिसुरपूजनोचितः ।
बहुधा निरूप्य विविधान् शिवागमानिह साधकेन्द्रमनसां प्रियङ्करः॥१६०३।।

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे कुण्डमण्डलविधिः षष्ठः पटलः। अथ सप्तमः पटलः ।

वक्ष्ये स्रुक्स्रुवयोश्च लक्षणमथो स्रुग्धस्तमात्रायता

पालाशी खदिरोद्भवापि च तथा स्याच्छामिली शोभना ।

वेदाश्रं तु मुखं स्वराङ्गुलमितं श्रेष्ठं रसैर्वा शरै-

. र्मध्यं चाप्यधमं च निम्नमिह तन्मध्ये त्रिभागास्तृतम् ॥ १॥ विस्तारेण समं हि खातमपि तद् वृत्तं बहिर्मेखला स्त्रिस्त्रः स्युः कमलं तथैव परितस्तासां तु बाह्ये भवेत् ।

कण्ठो गोलकविस्तृताङ्गुलमितो दैर्ध्येण तस्योर्ध्वतः

स्यादग्रं चतुरङ्गुलायतमथो विस्तारतस्तत्समम् ॥ २ कण्ठस्याप्यथ मध्यवर्ति सुषिरं तद् वै त्रिकोणायतं निर्गच्छेद्धि यथायतं तदवटं यावत् कनिष्ठा विशेत् ।

तत्पृष्ठं कमलाङ्कितं खलु मुखं सर्वं गजोष्ठोपमं

शिष्टं वर्तुलदण्डमस्य तु भवेदग्रं सरोजाङ्कितम् ॥ ३ ॥

दण्डाग्रं परिणाहतः सरसिजस्याधो यथर्त्वङ्गुलं

स्थूलोऽसौ क्रमशः प्रकोष्ठमिव तन्मूलं च वखङ्गुलम् तत्र स्याद् वृषभोऽथवा सरसिजं श्लक्ष्णाकृतिः सर्वतो निर्दोषः शुभदेशजान् क्षितिरुहाञ्छित्वा स्रुचं कारयेत् ॥ ४ ॥

सुग्जातिस्तु भवेत् स्रुवं सुविहितं तालद्वयायामकं

कुर्याद् वर्तुलमङ्गुलेन वदनं तस्यावटेऽर्धाङ्गुले । १. "श्रि', २. 'मचि हि' प. पाठः.