पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः चतुरश्रं चतुर्हस्तं क्षेत्रं विंशतिभागिकम् । स्याच्चतुःशतकोष्ठं तन्मध्येऽन्जं तत्त्वकोष्ठकैः ॥ ८२ ॥ पक्तयैकया पीठमथैकया. स्याद् वीथी ततः पङ्क्तिचतुष्टयेन। तत्बारलिङ्गैः परितो लताः स्युस्तद्बाह्यपङ्क्तयापि च बाह्मवीथी ॥ ८३ ॥ कुर्याद् भद्रकवत् पद्मपीठवीथीर्यथाविधि । प्रतिपङ्क्तिद्विकोष्ठाष्टकोष्ठैर्द्वाराणि दिक्ष्वपि ॥ ८४ ॥

वीथ्यन्तरा द्वारनिबद्धकोष्ठत्रयेण भूपीठमथैककोष्ठम् ।
स्यात् कण्ठपीठं त्वथ तोयपट्टं कोष्ठेस्त्रिभिर्लिङ्गमथैककोष्ठम् ॥ ८५॥

अधश्चोर्ध्वं च तत्कोष्ठात् पीठकोष्ठचतुष्टये।

कोष्ठान्तः कोणगं सूत्रं कोष्ठसूत्रार्धमानतः ॥८६

भ्रमयित्वा त्यजेद् बाह्ये खण्डिताश्रिचतुष्टयम् । पीठमेवं भवेद् रम्यं द्वादशाभैरलङ्कृतम् ॥ ८७ ॥

प्राग्वत् समापूर्य तु वर्णचूर्णैः पद्मादिवीथ्यन्तमशेषबिम्बम् ।
ख्यातं लतालिङ्गसमुद्भवाख्यं तन्मण्डलं शङ्करवल्लभं यत् ॥ ८८॥ ..

लतालिङ्गोद्भवाधिकारः। क्षेत्रे षोडशधाभक्तचतुरश्रे चतुर्दिशम् । पार्वतीकान्तवत् कोष्ठैः कुर्याल्लिङ्गचतुष्टयम् ॥ ८९॥

मध्ये विशिष्टैरपि वेदकोष्ठैर्लिङ्गान्तरालेष्वपि तत्प्रसंख्यैः ।
चतुर्दलाब्जं स्वयमेव तैः स्याल्लिङ्गेषु संवर्तितमस्तकेषु ॥ ९० ॥

भद्राष्टकं स्यात् कण्ठेषु लताः कोणेषु पूर्ववत् ।

लिखित्वा मण्डलं तत् स्यात् पञ्चब्रह्माभिधानकम् ॥ ९१ ।।
मध्येऽम्बुजे वर्तुलकर्णिका स्यात् पीता च रक्ता तनुकेसराली ।
ईशस्तु मध्ये पुरुषादयोऽपि स्ववर्णदिग्लिङ्गगता भवन्ति ॥ ९२ ॥

अस्यैव तु लतास्थानेष्वालिख्य स्वस्तिकानि तु ।

कोणार्धपङ्क्तयोर्वीथी स्याद् गौरीतिलकमण्डले ॥१३॥

1. 'कर्णपूर्णै' ख. पाठ:.