पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ [ सामान्यपादः बहिर्गुणाद् वै परितः क्रमोक्ताल्लिखेत् ततः सत्त्वरजस्तमांसि । रजोभिरङ्गुष्ठमितांस्तु शुक्लारुणासितान् मध्ययवान्तरांस्तान् ॥ ६२ ॥ भद्रकाधिकारः । चतुरश्रेऽष्टधा भक्ते चतुःषष्टिपदे कृते । मध्ये कोष्ठचतुष्केण पद्मं पीठं च संलिखेत् ॥ ६३ ॥ तद्वाह्यपङ्क्तया खलु वीथिका स्यात् तद्बाह्यपङ्क्तिद्वयदिक्चतुष्के । द्वाराणि कोष्ठैः खलु वेदसंख्यैः संमृज्य शुक्लानि समानि कुर्यात् ||६४२॥ द्वाराणां पार्श्वयैर्बाह्यपंङ्क्तावेकैककोष्ठकम् । द्वारेणायोज्य विमृजेत् स्यातां कण्ठोपकण्ठकौ || ६५ ।। संस्थाप्य कोणेष्वथ कोष्ठमेकं शिष्टेः पृथक् कोष्ठकपञ्चकैः स्युः । एकीकृतैर्वेद कपोलकास्ते तावन्त एवोपकपोलकाश्च ॥ ६६ ॥ अत्राजिते. " कपालं तु भवेत् तेषु पदं पूर्वापरायतम् । दक्षिणोत्तरगं चापि भवदुपकपोलकम् ॥ " इति । प्रागुक्तमार्गेण तु कर्णिकाद्यं चापूर्य वीथिं च यथोक्तवर्णैः । द्वाराणि शुक्लेन कपोलकास्ते रक्तास्तथा पतिरुचोध च स्युः ॥ ६७ ॥ अत्राजिते बृहत्कालोत्तरे च w “कपोलोपकपोलास्तु वह्निकोणादिषु क्रमात् । " रक्तं पीतं तथा श्यामं श्वेतं च परिकल्पयेत् || इति । वह्नयादिकोणकोष्ठानि पीतश्यामासितारुणैः । पूरयेद् वाथ सर्वाणि कृष्णेन परिपूरयेत् ॥ ६८ ॥ बाह्ये तु शुक्लारुणकृष्णवर्णैः प्राग्वत् समालिख्य गुणत्रयं तत् । स्यात् सर्वतोभद्रमिदं तु कोणे षट्कोष्ठकैकी करणेन भद्रम् ॥ ६९ ॥ मण्डलेष्वपि सर्वेषु शुक्लान्यब्जदलानि तु | द्वाराणि चाथ वीथी स्याल्लताद्यैरविशेषिते ॥ ७० ।। सर्वतोभद्राधिकारः । १. 'ध्य', २. 'यं' ख. पाठ:. ३. 'वर्तये' ग. पाठः