पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२ ईशानशिवगुरुदेवपद्धतौ । दलान्तसिद्धयै दलसन्धिमध्ये निधाय सूत्रं तु दलान्तमानम् । दलान्तरालद्वयसंभ्रमोत्थैः शशाङ्कखण्डैस्तु दलं प्रसिध्येत् ॥ ४२ ॥ पद्मषोडशसूत्राणां मध्यं सूत्रैर्विभज्य तु । द्वात्रिंशत् खण्डसूत्राणि स्युर्दलाग्रवृतौ समम् ॥ १३ ॥ दलाग्रसूत्रोदयपार्श्वसूत्रयोरंग्रस्थतं सूत्रमथास्य मूलतः । दलाग्रसूत्रान्तमुपानयेल्लिखन्नेवं दलाग्रं तु भवेन्मनोहरम् ॥ ४४ ॥ स्याच्छालिपिष्टं सितचूर्णमिष्टं हारिद्रमीषत्सितयुक्सुपीतम् । कौसुम्भसिन्दूरकधातुरक्तं दग्धैर्यवाद्यैरपि नीलचूर्णम् ॥ ४५ ॥ शम्यब्जबिल्वादिदलैर्यज्ञियैः श्यामलं स्मृतम् । तत्तद्वर्णैस्तु वा धान्यैः पूरयेन्मण्डलानि वै ॥ ४६॥ शक्तस्तु वाञ्छेद् यदि सिद्धिमग्र्यां तद्वर्णरत्नैरिह मण्डलानि । आपूरयेन्मौक्तिकपुष्यरागैर्माणिक्यनीलैर्हेरितैश्च रत्नैः ॥ ४७ ॥ “एवंविधेषु चूर्णेषु सिद्धिकामो मुक्ताविद्रुमादिकैस्तदेवं कुर्याद् इति भोजराजः । वै " रेखास्तु सर्वाः सर्वत्र शुक्लाः स्युर्मध्यमामिताः । . द्विहस्तेऽङ्गुष्टमात्रा वा हस्ते चानामिकासमाः । द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते मध्यमया मिताः ॥” इत्यन्ये । मध्ये सुपीता खलु कर्णिका स्यात् तस्यां तु बीजानि नवासितानि । द्वे द्वे पृथक् केसरके दलानां मध्येषु लेख्ये कुटिलाग्रमीषत् ॥ ४ ॥ मूले तनून्यापीतानि मध्ये स्थूलारुणान्यपि । अन्ते द्राक् तनुपीतानि तदन्तेऽल्पसितानि वै ॥ ४९ ॥ “मूलमध्याग्रेषु पीतरक्तशुक्लं केसरजालमि”ति भोजराजः । शुक्लानि तान्यष्टदलानि कुर्यात् समानि नुङ्गाग्रमनोरमाणि । भुक्तयै तथा प्राञ्जालकानि मुक्तयै स्मरादिर्यागेषु शिताग्रवन्ति ॥ ५० १. 'तो स', २. 'ज्जा', ३. 'न्धू', ४. 'पिण्डादि', ५. 'दि' ख. पाठ ७. 'थो' ख. पाठ: ८.. 'यो' ग. पाठः "ध्य ग. पाठ:. [सामान्यपाद: