पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः फणिसूरणचित्रलोणपिण्डैः कनकाम्भोगृहधूम्रकोषणैर्यत् ।

परिपिष्टमिदं विषं वदन्ति द्विषतां द्वेषणमारणक्रियेष्टम् ॥ ११ ॥
पिचुमन्दतरुस्थकाकनीडं वसनाङ्गारमृदः श्मशानलब्धाः।
नगदारुकमर्कटीकैदण्डीनृकचास्थ्यादि च वस्तु चाटने स्यात् ॥ ११॥
भ्रमणे च पिशाचवृक्षनिम्बावसितोन्मत्तकलागलीशणैश्च । रुजिचित्रकदण्डिशाल्मलाद्यैर्विषभल्लातविभीतकैश्च कुर्यात् ॥ १४ ॥ 

विषवृक्षविषाजसर्पिषोऽहीन् नृकपालास्थि फलानि चैत्यकाष्ठैः ।

वसनान्यसितानि सर्षपाद्यं नखकेशानिरजांसि साध्यजानि ॥ १५ ॥
द्विकशात्रवकाकरक्तपीतैः कुसुमैर्लोहितपुष्परक्तगन्धैः ।
अपि जन्मनगादिपुत्तलीभिः कटुकोष्णैरपि मारणं विधेयम् ॥ ४६॥
बुससर्षपपीतगन्धपुष्पैः कटुकोष्णाम्बुनिशाजमाहिषाणि ।
कुपटच्चरकोकिलाक्षचक्रीमृदिति स्तम्भनकृत्यसाधनानि ॥ १७ ॥

द्रव्याधिकारः।

तपनाहिनगात्मभाश्विनीनां तिथयोंऽशा दिवसाः शुभग्रहाणाम् ।
हरदस्रहरीन्द्रसूर्यपूषादितिदैवानि च भानि शान्तिके स्युः ॥ १८ ॥ 

तिथयो महिषारिविघ्नयाम्याः शशिजीवांशदिनोदयादिकं च ।

गुरुविष्णुशशाङ्कभैर्भगर्क्षे कथितं पौष्टिकसिद्धिदं यथावत् ॥ १९ ॥
नवमी हरिमातृदिग्गुहानां तिथयः शुक्रकुजार्कवासरांश्च ।
रवितिष्ययुताश्च सिद्धयोगाः कथिताः संवननेषु कर्षणे च ॥ ५० ॥
नवमी शशिमातृवह्रिदैवास्तिथयः शुक्रकुजार्कवासराद्यम् ।
यमवाहिहराहिदैवपूर्वाः खलु विद्वेषणकर्मसिद्धिदाः स्युः ॥५१ ।।
असिताहनि चासितप्रदोषोऽप्यसिताष्टम्यथ तच्चतुर्दशी च । हरवह्वियमाहिवायुतारास्त्वखिलोच्चाटनकर्मसिद्धिदाः स्युः ।। ५२ ॥
असिताथ चतुर्दशी कुहूरप्यसिताष्टम्यसितार्कभौमवारैः ।
कुलिकस्थविरे यमाम्बुभे वा कुजमन्दाभ्युदयाश्च मारणे स्युः ।। ५३ ॥
१. 'धू' ख. पाठः. २. 'म', ३.  ग. पाटः. ४. 'ग' ख. पाठः. ५. 'निः', ६. 'का' ग. पाठः. ७. 'जा', ८.. रायम् ।। यम', ९, 'धिकाट' ख. पाठः, १०. 'र' ग. पाठः.