पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[सामान्यपाद: ईशानशिवगुरुदेवपद्धतौ

धवलकमलहस्ता पुण्डरीकोषविष्टा

विमलवसनगन्धैर्भूषिता हेमवर्णा ।

दशशतपरिमाणा हारिधम्मिल्लभारा

प्रदिशतु बकवर्णास्याकृतिर्वो विभूतिम् ॥ ५८ ॥

शतमखमणिनीलः कूर्मवाहो द्विबाहुः

कपिशवसनगन्धो वज्रपाशौ च विभ्रत् ।

दशशतपरिमाणः क्षोभणो वोऽस्तु लक्ष्म्यै

प्रहसितवदनेन्दुः श्वेतसंज्ञः प्रमत्तः ॥ ५९ ॥

शशधररुचिगौरो वज्रपद्माब्जपाशान्

निधिकलशकरण्डे चक्रमप्यादधानः । सरसिजगतहंसे भूषितः कोटिमानो धनदपतिरभीष्टं यो भृगुर्वस्तनोतु ॥ ६ ॥

धवलवसनगन्धस्रग् जटी चन्द्रमौलि

र्हर इव लकुलीशो भूरिगौरस्त्रिणेत्रः ।

हरिणपरशुशूलैश्वान्वितो विश्वमानः

शिवगिरितनयेन प्राणस्वात्मावताद्वः ॥ ६१॥ सुरपतिभवनाब्जे शङ्खवज्रारिपाशान् सृणिमुसलभुसृण्ठीखडगघण्टाकपालम् ।

दधदवतु गजस्थः क्षेत्रपालेन्द्रदेवो

भुवनविततपीतस्त्रीक्षणोऽन्त्यो द्विदंष्ट्रः ॥ ६२ ॥

धवलरुचिरवर्णा ब्राह्मणास्तेऽथ रक्ताः ।

क्षितिभुज इह पीता ये विशो येऽपि कृष्णाः ।

वृषलकुलसजाता ह्यक्षराश्च स्वलिङ्गैः 

पुरुषयुवतिषण्डास्ते प्रतिश्लोकवेद्याः ॥ ६३ ॥ प्रत्यक्षरमूर्त्यधिकारः। १. 'ण' ख. पाठः. २. 'धौ' ग. पाठ:. ५. 'हि' ख, पाठः, ६. 'ााधि' ग, पाठः, ३ 'ति', ४. 'न्योऽपि दं'