पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ मं मं अं अं आं आं के व च इं र क्ष 3 हृल्लेखाव्योमसौपूर्वममून्यङ्गानि षट् क्रमात् । श्रीकण्ठादि । लिप्यर्णानि सबिन्दूनि रुद्रशक्तिविभक्तिहृत् ॥ ६६ ।। युक्तानि विन्यसेदेष श्रीकण्ठादिः सशक्तिकः । अङ्गानि प्राक्तनान्येर्वै तुल्यान्यस्यापि कल्पयेत् ।। ६७ ।। न्यासयोरनयोश्छन्दो विराडित्यभिधीयते । श्रीब्रह्मा मुनिरुद्दिष्टो वाग्देवी दैवतं भवेत् || ६८ || द्वितीयस्यार्धनारीशो न्यासस्येत्यपि केचन । साक्षस्रक्कलशोर्ध्वबाहुयुगलौं चाधः समुद्राभयं हस्तं दक्षिणमन्यतः सवरदे यस्याः करे पुस्तकम् । ध्यायेत् तां शशिखण्डमण्डितजटां देवीं त्रिनेत्रां सितां श्रीकण्ठाद्यधिदेवतां च धवलैराकल्पकैर्भूषिताम् || ६९ ॥ सिन्दूरहेमोभयभार्गंवर्णं त्वर्धाम्बिकं साङ्कुशपाशहस्तम् । साक्षाबलिं स्वेष्टदपाणिमीशं श्रीकण्ठपूर्वं स्मरतु स्वसिद्ध्यै ॥ ७० ॥ सशक्तिश्रीकण्ठन्यासः । तारं सशक्तिलिप्यर्णैरजपा सोऽहमेव च ॥ ७१ ॥ प्रपञ्चयागन्यासोऽयं न्यासज़प्यादिनेष्टदः । लकुली बिन्दुमान् सर्गी भृगुश्चाप्यजपामनुः || ७२ ॥ ऋषिर्ब्रह्मास्य गायत्री छन्दः स्याद् देवतापि च । परमात्मा परं ज्योतिर्ध्ये॑यः स्वहृदयाम्बुजे ॥ ७३ ॥ सशक्तिठद्वयं हृत् स्याच्छिरः सोऽहमिहोच्यते । [सामान्यपादः 'क च' ग. पाठः २. 'ईई क्ष क्ष' ख. पाठ:. ३. , ४. 'घु', 'ले' ग, पाठः, ६. 'र्णसार्धा' ख. पाठः,