पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१० इंशान शिव गुरुदेवपद्धतौ सामान्यपादः भुजङ्गश्च पिनाकी च खड्गीशो बक एव च । तनः श्वेतो भृगुश्चैव तथैव लकुलीश्वरः ॥ ६ ॥ अन्त्यः संवर्तकाख्यः स्याद् रुद्राः पञ्चाशदीरिताः । रुद्राधिकारः । पूर्णोदरी च विरजा तृतीया शाल्मली भवेत् ॥ ७॥ लोला च वर्तुलाक्षी च दीर्घघोणा ततो भवेत् । सुदीर्घमुखिगोमुख्यौ दीर्घजिह्वा ततो भवेत् ॥ ८ ॥ कुण्डोदरी चोर्ध्वकेशी तथैव विकृतानना । ततो ज्वालामुखी चोल्कामुखी श्रीमुख्यथो भवेत् ॥ ९ ॥ विद्यामुखी च कथिताः षोडश स्वरशक्तयः | महाकालीसरस्वत्यौ सर्वसिद्धाद्यगौर्यथा ॥ १० ।।

ततस्त्रैलोक्यविद्या स्याद् मन्त्रशक्त्यात्मशक्तिके | भूतमाता भवेत् पश्चात् ख्याता लम्बोदरी ततः ॥ ११ ॥ भु द्राविणी नगरा चैव खेचरी चापि मञ्जरी । रूपिणी वीरिणी चैव कोटरी पूतना तथा ॥ १२ ॥ भद्रकाली गोमिनी च शङ्गिनी गर्जिनी ततः । कालरात्रीकपर्दिन्यौ परतः कर्षणी मता ॥ १३ ॥ महाज्ञाना जया चैव सुमुखा रेवती ततः । गाधवी वारुणी चैव वायवी परतो भवेत् ॥ १४ ॥ रक्षोवधारिणी चान्या ततस्तु सहजा भवेत् । लक्ष्मीर्माया च पञ्चाशदेता वै रुद्रशक्तयः ॥ १५ ॥ रुद्रशक्तयः | केशवः प्रथमा मूर्तिस्ततो नारायणाह्वयः | माधवस्त्वथ गोविन्दो विष्णुश्च मधुसूदनः || १६ || 'मना॥', ३. 'शक्तित्रैली' ४. 'व', भरा' ६ विषयी', 'दीपू य. पाठ: