पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ ईशानशिवगुरुदेवपद्धतौ शब्दप्रपञ्चः सर्वोऽपि विचित्रं जायते स्फुटम् । हलामधिकारः । सैव शक्तिद्विधा भूता तारो वाग्भवमित्यपि ॥ ५३ ॥ अकारश्चाप्युकारोऽथ मकारो बिन्दुनादवान् । ताराख्यः प्रणवो ह्येष शब्दब्रह्मात्मको मतः ॥ ५४ ॥ अईमबिन्दुनादाढ्यं वाग्भवं बीजमीरितम् । विश्ववाउग्भूतिदं तत्तु वागीश्वर्यास्तनुर्भवेत् ॥ ५५ ॥ प्रणवस्तु शिवः साक्षाद् वाग्भवं शक्तिरैश्वरी । शक्तिबीजं तथा तारो वाग्भवं च ततः परम् ॥ ५६ ।। अकारादीनि पञ्चाशदक्षराण्यनुपूर्वशः । तद्भेदजाश्च या वाचो देशभाजा विलक्षणाः ॥ ५७ ॥ वेदाः साङ्गाः पुराणानि शास्त्राणि विविधानि च । आकाशादीनि भूतानि तन्मात्राणीन्द्रियाणि च ॥ ५८ ॥ मनो बुद्धिरहङ्कारो रागः कालः कलास्तथा । बहुना किं प्रलापेन यः शब्दार्थात्मकोऽखिलः ॥ ५९ ॥ प्रपञ्चः शक्तिजो ह्येष शक्तिस्तस्मात्तु मातृका | अस्यां तु मातृकाख्यायां लिपित्वं लिख्यते यतः ।। ६० ।। अक्षरत्वं क्षराभावाद् वर्णत्वं वर्णसङ्ग्रहात् । अर्णत्वममृतात्मत्वादर्णोऽम्भः कथ्यते यतः ॥ ६१ ॥ खानिलाग्न्यब्धरित्र्याख्या हयरेफा बलावपि । उपादानानि विश्वात्ममातृकायास्तु पञ्च वै ॥ ६२ ॥ अवर्गोऽस्या मुखं साङ्ग कचवर्गौ भुजद्वयम् । टतवर्गों तथा पादौ पार्श्वयुग्मं पफौ मतौ ॥ ६३ ॥ १. 'रश्च'म', 'ज्ञेयः श' ग. पाठः. ३. 'भा' ख. पाठः. १ ५. 'सा' ख. पाठ ग. पाठः. [सामान्यपादः