पृष्ठम्:आर्यभटीयम्.djvu/177

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इलोकः ६ ] विक्षेपमण्डल ग्रहाणां पाताश्च ፃኛሂ इति। ततः स्वपातोन'चन्द्रज्यया' त्रैराशिकम्—यदि त्रिज्यया स्वविक्षेपकला' लभ्यते, इष्टज्यया का इति । ततो द्वितीयम्-त्रिज्यया एतावती ज्या, स्फुटकर्णेन का इति व्यस्तत्रैराशिकम् । अनयोरेकीकरणे भुजज्यायाः परमविक्षेपो गुणः, कर्णो हारः" । एतदुक्तम्'- पातोनसमलिप्तेन्द्धोजोंवा खत्रिघनाहता । कर्णेन ह्रियते लब्धो विक्षेपः सौम्यदक्षिणः ॥ (लघुभास्करीयम्, 4. 8) इति। इतरेषां तु स्फुटमध्ये यत् क्षिप्त शुद्ध वा शीघ्रफलं तत् पाते तथा कृत्वा स्फुटपातः कार्यः । बुधशुक्रयोस्तु मन्दफलेन संस्कृतौ पातौ स्फुटी, विशेषा भावात्। तथा च लल्लः क्षितिसुतगुरुसूर्यसूनुपाताः स्वच्चलफलोनयुता यथा त एव ॥ शशिसुतसितयोः स्वपातभागाः स्वमूदुफलेन च संस्कृताः स्फुटाः स्युः ॥ (शिष्यधीवृद्धिदम्, ग्रहगणितम्, ग्रहयुतिः 6) इति । तान् पातभागान् स्फुटग्रहेभ्यस्त्यक्त्वा शेषस्य' भुजज्यया त्रैराशिकम्यदि त्रिज्यया परमविक्षेपकला:, अनया कियत्य इति। ततो द्वितीयं व्यस्तम्त्रिज्यया एतावत्यः, भूताराग्रहविवरेण कियत्य इति । ग्रनयोरैक्यं दोज्यया क्षेपकलागुणः । भूखेटान्तरं हारः । फलमिष्टक्षेपः । तथा च लल्लः 'समलिप्तिकाद् विपातात् । त्रिदशगुरुमहीजसूर्यजातानाम् भूगुतनयेन्दुजयोस्तथैव शीघ्रात् । निजमध्यमबाणसङ्गुणा भुजजीवा कुखगान्तरोद्धृता। स शरो भवति ** * ॥ " (शिष्यधीवृद्धिदम्, ग्रहगणितम्, ग्रहयुतिः, 9-10) इति । अत्र पूर्वाधैं सौम्या दिक्', प्रथमपातादुत्तरेणापमण्डलाद्” विमण्डलप्रवृत्तेः । उत्तरार्धे याम्या, द्वितीयाद्याम्यतो गतत्वात् तस्य । Su-1. E. es: 2. D. स्वपातोनात् 3. D. E. चन्द्र भुञ्जज्यया 4. D. fqiqja T 5. E. भागहारः 6. E. तदुक्तम् 7. A. तान् पदपातभागान् 8. D. om. El 9. A. C. trafia 10. E. Austra (wr.)