पृष्ठम्:आर्यभटीयम्.djvu/163

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २४ ] ग्रहभ्रमणवासना ፃፃ ፄ तत्र शीघ्रोच्चनीचवृत्त'मध्यं परिकल्प्यते, तत्पुनः शीघ्रोच्चान्मन्दत्वात् पश्चादवलम्बमानं* शीघ्रोच्चात् प्रतिलोमगमिव दृश्यते । ग्रहस्तु पुनस्तत्परिधिस्थितस्वोच्चप्रदेशादनुलोमं गच्छति । यत एवं ततः कक्ष्यावृत्ते स्वमन्दनीचोच्चवृत्तमध्यं यावता कालेन यावद्याति तावतोच्चनीचवृत्तपरिधावपि उच्चप्रदेशात् तत्परिधिमानेन तावतीः कलाः पर्येतीति बोद्धव्यम् । तत्त्र” कक्ष्यावृत्तपरिधौ यद्यानं मध्यमगति*संज्ञितम्’ उच्चनीचवृत्त*मध्यस्य" तद्वशात् ग्रहाणामपि तत्परिधौ भ्रमतां तदानीमेव मेषादेर्यदपसरण सेह स्फुटगतिरभिधीयते । न स्वव्यापारकृता । सा पुनरुच्चनीचवृत्तपरिधावेव । तस्याश्च गते"यों मार्गः स इह प्रतिमण्डलमभिधीयते' । ग्रतः सर्वदा ग्रहः प्रतिमण्डलनीचोच्चवृत्त°परिध्योः सम्पात एवावतिष्ठते । एतादृशे भ्रमणविधौ यदा तत्कालोच्चमध्यतुल्यस्तात्कालिको मध्यग्रह:":ं तदा कक्ष्यामण्डलनीचोच्चवृत्तमध्यमप्युच्चरेखां प्राप्नोति । तदानीमेव स्फुटग्रहोऽपि तत्परिधावुच्चप्रदेशमधिरोहति' । द्रष्टा च भूस्थः स्व'°कक्ष्यायां मध्यमसममेव ग्रहं पश्यति, उच्चस्य तत्साम्यदेश"ध्रुवत्वात् । ग्रतः स्वोच्चमध्यवैषम्यादेव मध्यमस्फुटवैषम्य'?- मुत्पद्यते । उच्चरेखा च आद्यपदारम्भरेखा भवति'। तेन तत्र फलहेतोविप्रकर्षगुण“स्याभावः' । तस्मात्प्रभूति’ स्वोच्चनीचवृत्ते तत्परिधिगत्या गच्छन् ग्रहो यत्रावतिष्ठते तस्य प्रदेशस्य नीचोच्चवृत्तशलाकायाश्च यदन्तरालकाष्ठं तत्केन्द्रगति*तुल्यम् । तस्य या ज्या तच्छलाकासमतिरश्चीना** कक्ष्यामण्डलस्थोच्चमध्यान्तरालकाष्ठज्यातुल्या, सा तावद् वर्धते यावत् प्रथमं TaTEGE—1. A.C. îą"qft TT 2. A. HIs: 3. B. D. sei: 4. D. 5. D. ere: 6. B. मध्यगति 7. E. मध्यमाख्यं 8. A. B. C. वृत्तस्य 9. A. Heart 10. E. तस्याः स्वगतेः 11. E. मण्डल विधीयते 12. D.E. tr. : gorqrîqart 13. E. Hoù Wg: 14. A. adds sff. 15. A. FaFa ; E. om. Fa 16. A. om. ÈT 17. A. C. om. äeq:Faq 18. A. B. C. TeqTēT 19. E. fadfie T for Taft 20. D. विप्रकर्षजगुणस्य 21. E. फलहेतो: जीवाया ग्रभावः 22. E. तस्मात् प्रदेशात् प्रभृति 23. A. B. C. om. ग्रति 24 adds TT