पृष्ठम्:आर्यभटीयम्.djvu/126

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VY गणितपादे [ गणित० अथ त्रियुगदिनं प्रदश्र्यते । तत्र रविचन्द्रद्वियुगदिनेन कुजयुगदिनस्य समानत्वात्* तेषां त्रियुगदिनमपि तदेवेति नानयनम् । गुरोरप्येवम् । रविचन्द्रद्वियुगदिनेन शनियुगदिनेन च त्रियुगदिनानयन प्रदश्र्यते-तत्र रविचन्द्रद्वियुगदिनम् 13,14,93,125. शनियुगदिनम् *“शिथुगन्ध‘स्सर्ववेद्धाला” 39,44,79,375." श्रनयोर्लब्धमपवर्तनं चन्द्रादित्ययुगदिनमेव । तेन? तद्धृत्वा जातम् 1. शनियुगदिनं हृत्वा जातम्* 3. श्रप्रनयोर्वधः 3. ग्रपवर्तनेन रविचन्द्रद्वियुगदिनेन हत्वा जातं शनियुगदिनमेव रविचन्द्रशनीनां त्रियुगदिनम् । एवमन्यान्यपि त्रियुगदिनान्यानेतव्यानि । त्रियुगदिनविषयाः चतुरशीतिः प्रश्नाः सन्ति । एवं चतुर्युगदिनप्रश्नाः, पञ्चयुगदिनप्रश्नाश्च षड्वशदधिकं शतम् , षड्युगदिनप्रश्नाश्चतुरशीतिः, सप्तयुगदिनप्रश्नाः षट्त्रशत् , श्रष्टयुगदिनप्रश्ना नव, नवयुगदिनप्रश्न एक: । एवम् एकादशाधिकानि° पञ्चशतानि प्रश्नाः सम्भवन्ति" । उक्तेन प्रकारेण सर्वैः शून्याग्रो राशिः । नवयुगदिनं चतुर्युगदिवस-** प्रमाणमेव ‘व्योमशून्यशराद्रीन्दुरन्ध्राद्रयद्रिशरेन्दवः (1.57,79,17,500). गणितकर्म तु ग्रन्थविस्तरभयान्न प्रदश्र्यते । इति साग्रकुट्टाकारोऽभिहितः । एतदेवार्यासूत्रद्वयं निरग्रकुट्टाकारे योज्यते । अधिकाग्रभागहारम् अधिकसंख्यं भागहारं' भागहारभाज्ययो: अत्र' परस्परभाजकत्वात् भागहारशब्देन द्वयोरपि निर्देशः, तमधिकसंख्यं भाज्यभाजकात्मकं राशिद्वयम् । ऊनाप्रभागहारेण छिन्द्यात् ऊनसंख्येन भागहारेण सम्भवे 'सत्यपवर्तयेदित्यर्थ: । येन हरभाज्यावपवत्येते तेन क्षेपस्याप्यपवर्तनम् श्रप्रर्थसिद्धमिति न कण्ठोत्तम् । यत्र भाज्यहरयोरपवर्तनमस्ति, क्षेपस्य तु नास्ति तदुदाहरणं खिलं° विद्यात् । उक्तं च--- भाज्यहरप्रक्षेपात् सदृशच्छेदेन सम्भवे छिन्द्यात् । स्याच्चेद् विभाज्यहरयोः छेदो' न क्षेपकस्य खिलम् । व्याख्या-1. E. त्रियुगदिनानयन 2. E. समत्वात् 3. A. god (wr.); C. D. zing 4. A. C. orfeo 5. D. E. om. this expn. 6. D. 39,44,79,395 7. A. B. C. om. T 8. A. C. om. TSITET 9. A. B. C. एकादशादधिकानि 10. D. सन्ति for सम्भवन्ति 11. A. B. C. om. fiką 12. A. B. C. Hap. om, of HTTigt & 13. E. om. Y- 14. A. teacqqadar (wr.) 15. A. B. stgoUTHfasỉ (wr.) 16. A. C. ằầ