पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
12
आयुर्वेदसूत्रे

 ननु प्रवृत्तिर्द्विविधा इष्टप्राप्त्यर्थमनिष्टपरिहारार्थं चेति । स्वाधिष्ठानानुभूतशरीरं संरक्षणीयमित्येका प्रवृत्तिः । सा द्विविधा प्रवृत्तिरात्मन उपपद्यते । तत्कथं शरीराङ्गभूतानि पञ्चेन्द्रियाणि ? तद्द्वारा इष्टप्राप्तिरूपकलं कथं लभ्यते ? अनिष्टपरिहारद्वारा इष्टप्राप्तिरूपफलमपि लभ्यते ? अनिष्टपरिहारद्वारा उभयफलं शरीरिणो भाव्यमित्यत आह-- अष्टेति ।

 अष्टाङ्गी शरीरी ॥ २८ ॥

 अष्टानामङ्गानां समाहारः अष्टाङ्गम् । शरीरम यास्तीति शरीरी । अत्र सूत्रवचनम्--

कायबालग्रहे र्त्वाङ्गा शल्यदंष्ट्राजरावृषान् ।
अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता[१]

शरीरोपद्रवकार्यकारणीभूतव्याधय औपाधिकभूताः वातपित्तकफप्रकुपितहेतुकधातवोऽपि न प्रवर्धन्त इति अष्टरोगाणां अङ्गत्वं प्रतिपादितम् । शरीराणामेतादृशा व्याधयः । तेषां धातूनामङ्गत्वं प्रतिपादितम् । सप्तधातुमयं शरीरमिति अङ्गोपद्रवकारकव्याधीना परम्परया अङ्गत्वं प्रतिपादितमित्यर्थः ।

 ननु धातुप्रवर्धकद्रव्याणामङ्गत्वं वक्तऽव्यं चेत् तथा सुकरमिति धातुविनाशकारकाणां शरीरनाशकानां अङ्गत्वं कथं स्यादिति चेन्न, शरीराभावकार्यस्य व्याधीनां कार्यकारणभावस्य वक्तुं शक्यत्वादित्यर्थः ।

 शरीरविनाशहेतुभूतानामष्टरोगाणां लक्षणप्रमाणे व्यपदिशति-- यावदिति ।


  1. अष्टाङ्गसूत्रम् 1-5.