पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
197
चतुर्थप्रश्नः

 ननु स्थावरस्थस्वादुरसः पवनप्रकोपनिवर्तकोपयोग्यभेषजद्रव्यं न भवति, सप्तधात्वात्मकशरीरजन्यत्वाभावात् इक्षुकाण्डशरीरवत् । यस्सप्तधातुमयशरीरजन्यस्वादुरसो न भवति स पवनप्रकोपनिवर्तकोपयोग्यभेषजद्रव्यं न भवति, सप्तधात्वात्मकशरीरजन्यत्वाभावात् इक्षुकाण्डशरीरवत् । यस्सप्तधातुमयशरीरजन्यस्वादुरसो न भवति स पवनप्रकोपनिवर्तकस्वादुरसोऽपि न भवति, यथा तालफलजन्यस्वादुरसः । इक्षुकाण्डस्थितस्वादुरसः पवनप्रकोपकारकः कालपाकजन्यस्वादुरसवत्वादेव अनलपाकजन्यत्वाभावात्, यन्नैवं तन्नैवं यथा घट इति । एवं आम्लरसः पवनप्राकेपनिवर्तको न भवति । सप्तधातुमयशरीरजन्यस्वादुरसद्रव्यत्वाभावात् । एवं लवणरसवद्द्रव्यं पवनप्रकोपनिवर्तकं न भवति, सप्तधात्वात्मकशरीरजन्यत्वाभावात् कालपाकजन्यस्वादुरसवद्द्रब्यत्वाच्च स पवनप्रकोपकारको भवतीत्यर्थः । लवणरसवद्भूरुहद्रव्यं नानिलनिवर्तकं ऊषरभुजन्यभूरुहद्रव्यत्वात् संप्रतिपन्नवत् । इत्यनुमानप्रमाणेनापि यावत्सप्तधात्वात्मकानि शरीराणि तदीयस्वादुरसवद्द्रव्यं पवननिवर्तकं भवतीत्यस्वरसादाह-- तिक्तेति ।

 तिक्तोषणकषायरसाः रसासृङ्मांसमेदोबलप्रदाः[१]

 सर्वे च भूरुहः रसादिचतुर्धात्वात्मकाः तिक्तोषणकषायरसगुणप्रधानबलाधिकद्रव्यत्वात् । शुक्लमज्जास्थिधात्वभावद्रव्यत्वेन तत्पोषकस्वाद्वम्ललवणरसगुणप्रधानद्रव्यत्वादित्यर्थः ।

 ननु स्वाद्वम्ललवणरसाः स्थावरस्थाः । तन्निष्ठस्वादुरसानां का गतिः? रसप्रधानत्वेन द्रव्यगुणान् वक्तुं योग्यत्वादित्यर्थः ।


  1. 'तिक्तोषणरसौ मांसमेदोबलप्रदौ' इति A. B. केशयोः.