पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
147
चतुर्थप्रश्नः

 मृदुमध्यातिमात्रत्वात्ततो विशेषः[१] ॥ ५ ॥

 श्वासानिलः इडामार्गं गत्वा मन्दंमन्दं सञ्चरन् शरीरं नीरोगं करोति । स एव मोक्षहेतुको भवति । तदनन्तरं मध्यमार्गं गत्वा नाभिप्रदेशपर्यन्तं मन्दंमन्दं सञ्चरन् शरीरदार्ढ्यकारको मोक्षहेतुकश्च भवति । अतिमात्रगमनेन सुषुम्नामार्गं गत्वा अत्यन्तमुदरमापूर्यते चेत् तस्य शरीरपिङ्गलामार्गं गत्वा शरीरस्य निरतिशयमोक्षहेतुको भवति । तेभ्यो विशेषादभ्यासवशात् प्रयत्नाभावेऽपि सर्वदा यः कुंभकं करोति सः अरोगी भूत्वा राजयोगमार्गसम्पादनेन सर्वकर्मपरित्यागवान् भवति । तेनैव मोक्षफलमश्नुते । तत्र श्रुतिः--

 "संन्यासयोगाद्यतयः शुद्धसत्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे" इति श्रुतिप्रमाणेन असंशयज्ञानगोचरवान्भूत्वा शरीरदार्ढ्यकर्मकरणद्वारेण सर्वविषयभोगानुपभुज्य तद्भोगविषयकपदार्थान्नश्वरानिति विज्ञाय सर्वदा आत्मविषयकज्ञानं इहलोकेऽपि सर्वदा परमानन्दानुभवहेतुकम् । स एव ततो विशेष इत्यर्थः । राजयोगोऽपि भवति । तस्य उपायेभ्यो मृद्वादिभेदभिन्नस्य उपायवतां विशेषो भवतीत्याह-- मृद्विति ।

 मृदुमध्यातिमात्रा इत्युपायभेदाः ॥ ६ ॥

 पूर्वोक्तरीत्या मृदुमध्यातिमात्रगमनं रोगनिवर्तकद्रव्यानिवृत्तरोगनिवृत्त्यर्थम् । अयमेवोपायः शरीरदार्ढ्यकर्मकरणद्वारा मोक्षफलप्रापको भवतीत्यर्थः ।

 ननु यत्तु त्रयाणां मार्गाणां शरीरदार्ढ्यकर्मकरणपर्यन्तमपि उपायो भवतीत्युक्तं ततोऽधिकमार्गपर्यन्तगमनमपि उपायो भवतीत्याह-- मृद्विति ।


  1. योग. I. 22.