पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
93
द्वितीयप्रश्नः

दुष्कृतकारकशक्तिविशिष्टगुणप्रधानप्रतिभूतकरकर्मकारकं तावत्पाककर्मकरणाच्छुद्धं स्नेहं तावद्द्रव्यगुणदायकम् । अतिपाचितं सुपक्वपर्यन्तं पाचितम् । अतिपाचितस्नेहं निवर्तकमित्युक्तम् । पवनप्रकोपहेतुकयावद्रोगशोषकप्रतीकारहेतुकं निवर्तकम् । तत्तु शुद्धस्नेहम् | अपतर्पणं यत्र निवर्तकं भवति तत्रेदं वचनं--

जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे ।
दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च ।
शान्तिरामविकाराणां भवति त्वपतर्पणात् [१]

एतद्वचनानुसारेण शोषकद्रव्यहेतुकं कार्यम् । एतेन शोषकद्रव्याणां प्रयोजकत्वं प्रतिपादितम् । इदानीं शोषकं कथ्यते । तिक्तोषणकषायरसविशिष्टयावद्द्रव्यसंयोगहेतुकं कफरोगप्रतिकारकशक्तिविशिष्टगुणप्रधानप्रतिभूतकर्मकारकं यत्तत्कर्मणां यावद्गुणदायकं शुद्धस्नेहं भवति । अतिपाचितमत्यन्तपाचितं सुपाकपर्यन्तम् , तत्तु स्नेहद्रव्यं कफप्रधानरोगजालनिवर्तकम् । पवनजन्यरोगेषु क्वचिन्निवर्तकाः शोषकाः, क्वचिन्निवर्तकाः पोषका इत्यर्थः ।

 तस्य स्नेहस्य प्रयोजनमाह-- अङ्गेति ।

 अङ्गाङ्गसङ्गोऽङ्गविलेपनादङ्गाङ्गविभजनं विभाति ॥ ७९ ॥

अङ्गलग्नरोगाणां तत्तत्स्थलसंसर्गात् रोगो विनश्यति । अत्यन्तवेदनाभावादङ्गेषु लेपनमात्रादेव तन्निवर्तते । दोषसञ्चाराभावजास्थिकर्णनासादिसन्धिजीवनेषु विमर्दनपादघट्टनं सम्यक्कार्यम् ।

  1. अष्टाङ्ग. सूत्र. VIII. 19--20.