पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
काव्यमाला ।



पम्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दि- व्यवागुपासनादिना प्रतिबिम्बनम् । द्वितीयो यथा-

‘कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः ।
तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ॥

अत्र निहत्वादेः स्थानादिना वैधर्म्येण प्रतिबिम्बनम् ।

संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना ।

प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् । तत्र क्वचित्संभवन्नेव वस्तुसं- बन्धः स्वसामर्थ्याद्विम्बप्रतिबिम्बभावं कल्पयति । क्वचित्पुनरन्वयबाधाद- संभवता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते । तत्र संभवद्वस्तुसंबन्धा यथा

‘चूडामणिपदे धत्ते यो देवं रविमागतम् ।
सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ।


बिम्बनम् । यन्निबन्धनं चेति । अर्थालंकारत्वं न पुनरौपम्यम् । तस्य च समनन्तरो- क्तयुक्त्यासंभवात् । संभवतेत्यादि । बिम्बप्रतिबिम्बभावमिति । उपमानोपमेयत्व- मित्यर्थः। धर्मधर्मिणोरभेदोपचारात् । एवं चात्र निदर्शनायां सादृश्याविनाभावः । तेन ‘प्रभाते पृच्छन्तीरनुरहसत्तं सहचरीर्नवोढा न व्रीडामुकुलितमुखीयं कथयति । लिखन्तीनां पत्राङ्कुरमनिशमस्यास्तु कुचयोश्चमत्कारो गूढं करजपदमासां प्रथयति ’ इत्यादौ संभव- त्यपि वस्तुसंबन्धे प्रथनस्यौपम्याभावान्न निदर्शनालंकारत्वम् । अनेनैव वस्तुसंबन्धस्य संभवासंभवाभ्यामस्या भेदद्वयमप्युक्तम् । तदेवोदाहरति-चूडामणीत्यादिना । तत्समर्थाचरणे प्रयोगादिति । ‘कारीषोऽध्यापयति’ इत्यादिवत् । अभ्यागतस्य रवेर्गिरिणा। शिरसा धारणं तत्समर्थाचरणः । अत एवात्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयो- , गान्मयेव भवद्भिरप्यतिथिसपर्या कार्येति संभवत्संबन्धमूलमत्रार्थमौपम्यम् । एवं च प- र्वतस्य बोधनक्रियाकर्तृत्वासंभवादेवाभिमन्तृव्यापारोपारोहाभावान्नात्र प्रतीयमानोत्प्रेक्षा । नापि स्मृत्यलंकारः । गृहमेधिनां गृहकर्तृकस्य सद्विषयातिथ्यबोधकत्वस्य वाक्यार्थत्वात् । । तत्र हि सदृशदर्शनाद्वस्त्वन्तरस्य स्मृतिर्भवति । नचात्र गृहमेधिनां रविदर्शनादतिथिस्मृतौ कर्तृत्वम् । तेषां सदातिथ्यकर्तव्यताया बोध्यत्वात् । नाप्यत्र रविणातिथेरतिथिना वा रवेः साम्यं विवक्षितम् । अपि तु मयेव गृहमेधिभिरपि सतामातिथ्यं कार्यमिति । अत एव नात्र वस्त्वन्तरकरणात्मापि विशेषालंकारः । तपनावगमेऽतिथ्यादेरसंभाव्यस्यावगमो


१. ‘चमत्कारंक. २. ‘करणादपि' ख.