‘योगपट्टो जटाजालं तारवीत्वमृगाजिनम् ।
उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम् ।'
उचितत्वं गुणः । अप्राकरणिकानां यथा--
धावत्त्वदश्वपृतनापतितं मुखेऽस्य
- निर्निद्रनीलनलिनच्छदकोमलाङ्गया ।
भग्नस्य गूर्जरनृपस्य रजः कयापि
- तन्व्या तवासिलतया च यशः प्रमृष्टम् ।'</poem>
अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया। गुणो
यथा--
त्वदङ्गमार्दवद्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता ॥’
कठोरत्वं गुणः । एवमेषा चतुर्विधा ।
व्याख्याता
प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमु-
च्यते।
प्रस्तुताप्रस्तुतानां तु दीपकम् ।
औपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकयोर्मध्यादे
इत्युदाहरणान्तरेणोदाह्रियते यथा-'शंभोर्यन्नस्वरश्मिभिः प्रणमतंश्चूडामणित्वे स्थिता गङ्गा चन्द्रकला च सर्वजगतां वन्द्यत्वमापादिता । युक्तायाः परतापदावविपदः कन्या पितृणामसौ दूरीकार्यहिमालया कथमुमापादद्वयी प्राप्यते । अत्र भगवतीपादद्वयस्यैव वर्णनीयत्वाद्चन्द्रकलयोरप्रकृतत्वम् । आपादनं च क्रिया । बिम्बप्रतिबिम्बभावेनापीयं भवति । यथा–क्षिपन्त्यचिन्त्यानि पदानि हेलया स्वराजहंसानधिरुह्य च स्थिता । कवी न्द्रवक्रेषु च यत्र शारदा सहस्रपत्रेषु रमा च रज्यति ।' अत्र वक्रपद्मयोर्बिम्बप्रतिबिम्ब- भावः। अनेनैव चाशयेनात्रालंकारवार्तिके ग्रन्थकृता वैशिष्टयमस्या दर्शितम् । शुद्धसामान्य- रूपत्वेन यथा -'आस्तां बालस्य संनद्धे हे धात्र्यौ तस्य वृद्धये । एका पयःप्रस्रविणी सर्वसंपत्प्रसूः परा । अत्र प्रस्रवणस्य शुद्धसामान्यरूपत्वम् । एतदुपसंहरन्नन्यदवतार- यति--प्रस्तुताप्रस्तुतानामिति । एकत्रेति प्राकरणिकेऽप्राकरणिके वा । अन्यत्रेति प्राकरणिकादौ । दीपकेति ‘संज्ञायाम्' इत्यनेन कन् । सादृश्येन समुदायगम्यायाः संज्ञाया
१. “अप्राकरणिकत्वं’ क. २. ‘मार्दवं’ क. ३. ‘अत्र कठोरत्वं ’ ख.