पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
काव्यमाला ।


संभवः । यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभाविनी तत्सं करोऽस्तु । न त्वेतावतास्याभावः शक्यते वक्तुम् । ततशेच न दोषः कश्चित् । ततश्चन एवं हि तत्र विषये भ्रान्तिमदलंकारोऽस्तु । अतदूपस्य तद्रूपताप्रतीतिनिबन्ध

नत्वात्। नैतत्। अनेकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात्। तद्धेतुक च्चास्यालंकारस्य संकरप्रतीतिस्त्वङ्गीकृतैव । यद्येवम्, अभेदे भेद इत्येवंरू पातिशयोक्तिरत्रासु । नैष दोषः । ग्रहीतृभेदाख्येन विषयूविभागेनानेक धात्वोट्टङ्कनात्तस्य च विच्छित्यन्तररूपत्वात्सर्वथा तस्यान्तर्भावः शक्यक्रिय इति निश्चयः । यथा वा

‘णाराअणो त्ति परिणअवआहिँ सिरिवल्लहो त्ति तरुणीहिं ।
बालाहिं उण कोदूहलेण एमे अ सच्चविओ ॥'


मुक्तं तदयुक्तम् । अवयवावयविभावसंबन्धाभावाल्लक्षणाया एवासत्त्वात् । न हि श्रीकण्ठाख्ये जनपदे तपोवनमवयवन्यायेन कुत्राप्येकदेशेऽस्ति यत्तत्रावयविनि मुनिभिरारोपितम् किं तु तत्तद्रुणयोगिनः श्रीकण्ठस्य विविक्तत्वादितपोवनादिगुणमुखेन निजनिजवासनानुसा रेणार्थित्वादिना मुनिप्रभृतीनामीदृगाभासः । अथापि यद्यस्यवयवावयविभावविवक्षा तल्ल क्षणामात्रं न रूपकम् । तस्य लक्षणापरमार्थत्वेऽपि विषयिणा विषयस्य रूपवतः करणादलं कारत्वम् । अन्यथा तु लक्षणामात्रमेव । नहि लक्षणापि रूपकपरमार्था इह च तपोवनाद्या रोपेणारोपविषयस्य नातिशयः कश्चित् । वस्तुत एव तद्रूपतायाः संभवात् । अतश्च स्थित एवात्र रूपकविविक्तोऽस्य विषयः । न केवलमन्यालंकारविविक्तोऽयमेवास्य विषयो यावद्य त्रापि रूपकालंकारयोगोऽस्ति तत्राप्ययं संभवत्येवेति दर्शयितुमाह--यत्रेत्यादि । इय मपि भङ्गिरिति एकस्यानेकधाग्रहणरूपा । एतावतेति रूपकप्रयोगमात्रेण । ततश्चेति रूप कोल्लेखयोः संकरात् । ननु यत्र रूपकयोगो नास्ति तदलंकारान्तरयोगः संभवतीत्याह-ए- वं हीत्यादि । अतद्रदूपस्येति । अतपोवनरूपस्यापि तपोवनरूपत्वोपनिबन्धनात् । अत स्मिस्तद्वहो भ्रम इत्येतदेव हि भ्रमसतत्वम् । अपूर्वस्येति भ्रान्तिमदसंभविनः । तद्धेतुक त्वादिति अनेकधाग्रहणाख्यातिशयनिमित्तकत्वात् ।यदि चात्र भ्रान्तिमानप्यस्ति तत्तेन

सहास्य संकर एवास्त्वित्याह-संकरेत्यादि । यद्येवमिति । भ्रान्तिमतोऽस्य विशे षस्तेन सहास्य संकरो वेत्यर्थः । एष इति अतिशयोक्तिसद्भावः । तस्येति ग्रहीतृभेदाख्यस्य विभावस्य । विच्छित्यन्तरत्वमेव हि सर्वेषामलंकाराणां भेदहेतुः । तदेवं तत्तच्छङ्कानिरासपू र्वममुमेव सिद्धान्तीकृत्य पुनरप्युदाहरति—णाराअणो त्तीति । अत्र च नारायणत्वा


१. ‘कर्तुम्’ क. २. ‘नारायण इति परिणतवयोभिः श्रीवलभ इति तरुणीभिः । बा लाभिः पुनः कौतूहलेन एवमेव सत्यापितः ॥’ इति च्छाया


१. ‘यद्यत्र रूपकप्रयोगो नास्ति तदलंकारप्रयोगे न संभवतीत्याह' क. २. ‘विषयभा वगम्यविच्छित्यन्तरत्वमेव' क. ३. ‘तत्तदीयशङ्का' ख.