‘गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा
सान्द्रस्वेदरसातिरेकविगलच्छीमन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥'
अत्र नायिकायां हर्षाख्यो व्यभिचारिभावः। यथा वा--
‘त्वद्वक्रामृतपानदुर्ललितया दृष्ट्या क्व विश्रम्यतां
त्वद्वाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः कर्णयोः।
एभिस्तत्परिरम्भनिर्भरतरैरङ्गैः कथं स्थीयतां
कष्टं तद्विरहेण संप्रति वयं कृच्छामवस्थां गताः ॥
अत्र चिन्ताख्यो व्यभिचारिभावः। एष एव च भावालंकारः। भावस्य चात्र स्थितिरूपतया वर्णनम् । शान्त्युदयावस्थे तु वक्ष्येते ।
ऊर्जस्वी यथा -
‘दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि जाते श्रुतिं
चेतः कलकलामपि प्रकुरुते नावस्थितिं या विना ।
एतैराकुलितस्य विक्षततरैरङ्गैरनङ्गातुरैः
संपद्येत कदा तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम् ॥'
अत्र रावणस्याभिलाषको विप्रलम्भशृङ्गारः । औत्सुक्यं च व्यभिचारिभावः। अनौचित्येन प्रवृत्तौ समाहितं यथा
‘अक्ष्णोः स्फुटास्रु कलुषोऽरुणिमानिलीनः
शान्तं च साधर्मधरस्फुरणं भ्रूकुट्या ।
व्याख्येयम् । यथा-पार्वत्या रचितां कपालिवृषभारूढं विलासाङ्गदग्रन्थिक्लान्तमहाहिलोचनलज्ज्वालं पिनाकाङ्कितम् । कन्दर्पार्पितशासनां कविवलकंकालमर्धेन्दुमंद्भस्माङ्गं
- च पुनातु वो नवरसान्पुष्णन्मुरारेर्धनुः । अत्र भगवद्विषयाया रतेर्नव रसा अङ्गम्।
विशेषमिति । अङ्गाङ्गित्वेन । तेन ध्वन्यभाववादिमतेनाङ्गाङ्गित्वमेवैषामाश्रित्योदाह्रियत इति तात्पर्यम् । भावालंकार इति । निर्वेदादीनां भावानां स्थियात्मकतयोपनिवध्यमानत्वात् । शान्त्युदयावस्थेति भावस्येत्यत्रापि संबन्धनीयम् । अनेन चास्य समाहि-
१. ‘प्रोख़्त' क.