पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
काव्यमाला ।


णायं प्रतीयमानोत्प्रेक्षा । तस्या अभिधानरूपाख्याध्यवसायस्वभावत्वात् । न ह्यप्रत्यक्ष प्रत्यक्षत्वेनाध्यवसीयते । किं तर्हि काव्यार्थविद्धिः प्रत्यक्षत्वेन दृश्यते इति । नापि वस्तुगता इवार्था उत्प्रेक्षाप्रयोजकाः । तस्या अभिमानरूपायाः प्रतिपत्तृधर्मत्वात्। यदाहुः—‘अभिमानेन सा योक्तिर्ज्ञानधर्मसुखादिवत्' इति च । काव्यविषये च प्रयोक्तपि प्रतिपत्तैव । नाप्यद्भूतदर्शनादतीतानागतत्वप्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदम् । लिङ्गलिङ्ग्यभावेन प्रतीत्यभावात् । योगिवत्प्रत्यक्षतया प्रतीतेः ।

नाप्ययं पुरः स्फुरद्रुपतया सचमत्कारं प्रतीते रसवदलंकारः । रत्यादिचित्तवृत्तीनां तदनुषक्ततया विभादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानवत्प्रतीतौ तस्य भावात् । इह च ताटस्थ्येन भूतभाविनां स्फुटत्वेन भिन्नसर्वज्ञवत्प्रतीतेः । स्फुटप्रतीत्युत्तरकालं तु साधारण्यप्रतीतौ स्फुटप्रतीतिनिमित्तक औत्तरकालिको रसवदलंकारः स्यात् । नापीयं सुन्दरवस्तुस्वभाववर्णनात्स्वभावोक्तिः । तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसंभवात् ।


किं तर्हीति । अध्यवसायो नास्त्येवेत्यर्थः। प्रतिपतैवेति। नवजानतः कवितुः प्रयोतृत्वं भवतीति भावः । नन्वत्यद्भुतपदार्थप्रत्यक्षप्रतीत्योर्गम्यगमकभावात्किं नेदमनुमाममित्याशङ्कयाह-नापीत्यादि । एवं रसवदलंकारादस्य भेदं दर्शयति-नाप्ययमित्या दिना । पुरःस्फुरद्रूपतयेत्यादिनानयोरभेदनिमित्तमुक्तम् । परकीयायाश्चित्तवृत्तेरात्मीयचित्तवृत्यभेदेन परामर्शो हृदयसंवादः । तस्य च स्वपरविभागाभावाद्देशकालाभावाच्च व्यापकत्वेन प्रतीतेः साधारण्यम् । अत एव परमाद्वैतज्ञानतुल्यत्वम् । तस्य ह्यवयमित्येव परामर्शः। तव्द्यतिरिक्तस्यान्यस्यासंभवात् । ताटस्थ्येनेति । इदमहं जानामीति सामानाधिकरण्येन प्रतीत्येत्यर्थः । अत एव विवेश्वरादितुल्यत्वम् । ननु भाविकप्रतीत्यनन्तरं यत्र रसवदलंकारः प्रतीयते तत्र किं प्रतिपत्तव्यमित्याशङ्कयाह-स्फुटेत्यादि । एवमत्रानयोरङ्गाङ्गितया समावेश इति तात्पर्यार्थः । तत्तु यथा—‘वनान्तरादुपावृतैः स्कन्दासक्तसमित्कुशैः। अग्निप्रत्युद्र्गमात्पूतैः पूर्यमाणं तपस्विभिः ।’ अत्र तपस्विनां स्फुटत्वप्रतीतिः शान्ताख्यरसोदयाङ्गमिति न तयोरैकात्म्यम् । एवं च सुन्दरस्य वस्तुनो यथावद्वर्णनावशात्प्रत्यक्षायमानत्वमस्य स्वरूपमिति तात्पर्यम् । ननु यद्येवं तत्किमिदं स्वभावोक्तिरेवेत्याशङ्कयाह नापीयमित्यादि । ईदृगिदं वस्त्वित्यत्र हृदयसंवादः। स च यथा-‘यत्र स्तनंधया-


१. चित्तवृत्तिभेदेन’ क. २. ‘स्वभावोक्तिरेव नेत्याशङ्कयाह ख.