पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
अलङ्कारसर्वस्वम्


प्रकारान्तरेणाप्ययं भवतीत्याह-

सौकर्येण कार्यविरुद्धक्रिया च व्याघात इत्येव ।

किंचित्कार्यं निष्पादयितुं संभाव्यमानः कारणविशेषस्तकार्यविरुद्धनि- ष्पादकत्वेन यत्समर्थ्यते सोऽपि संभाव्यमानकार्यव्याह्रतिनिबन्धनत्वाव्द्या- घातः । कार्यविरुद्धनिष्पत्तिश्च कार्यापेक्षया सुकरा । तस्य कारणस्यात्यन्तं तदानुगुण्यात् । नत्वत्र कार्याभिमतस्य कार्यत्वाभावः । तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात् । अत एव द्वितीयाद्विषमाद्भेदः। तत्र हि कार्यस्या- नुत्पत्तिरनर्थस्य चोद्गमनम् । इह तु कार्यमकार्यमेव न भवति । तद्विरुद्ध- स्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्ठुकार्यत्वात् । यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु

‘यदि बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भवद्भुजपञ्ज रमेव रक्षास्थानम्’ इत्यादि ।

अत्र राज्यवर्धनेन श्रीहर्षाप्रस्थापने कार्य बाल्यरक्षणीयत्वादि कारण- त्वेन यत्संभावितं तप्रत्युत प्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्य- वर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः ।


वैलक्षण्यमवश्याभ्युपगन्तव्यम् । अतश्वस्य सर्वात्मना व्यतिरेको निमित्तत्वं यायात् । पूर्व- वदित्यानुरूप्यपरिहारात् । स चैकस्योपायस्य साधनान्यथाकरणत्वेन विवक्षणात् । प्रकारा- न्तरेणेति प्रतीतिभेदात् । अयमिति व्याघातः । तमेवाह-सौकर्येणेत्यादि । एतदेव व्याचष्टे--किंचिदित्यादिना । संभाव्यमान इति केनचिदन्येन । तत्कार्येति । तच्च तत्कार्यं निष्पादयितुं प्रक्रान्तम् । अत एवास्य प्रथमाव्द्याघाताद्भेदः । तत्र हि येनकेनचि- दुपायेन निष्पादितं सद्वस्तु तथैवान्येनान्यथीक्रियत इत्युक्तम् । इह तु किंचिन्निष्पादयितुं संभाव्यमानस्य कारणस्य तद्विरुद्धनिष्पादकत्वेन समर्थनम् । तद्विरुद्धनिष्पत्तेश्च सौकर्यं किमुक्तमित्याशङ्कयाह--कार्येत्यादि । तदानुगुण्यादिति कार्यविरुद्धानुगुणत्वात् । न त्विति । अपि तु दुष्करत्वेन कार्यत्वमित्यर्थः । अनेनाप्यस्य प्रथमाद्वयाघाताद्भेदः सूचितः । इह हि किंचिन्निष्पादयितुं संभाव्यमानः कारणविशेषः सौकर्येण तद्विरुद्धनिष्पादकत्वेन समर्थ्यते । तत्र रूपाय विशेषविवक्षापरिहारेण कर्तुरेव पक्षप्रतिपक्षभावमाश्रित्य तथात्वोप- निबन्धः । अत एवेति । द्वयोरपि कार्यत्वसंभवात् । अनर्थेत्यनेनापि विषमादस्य भेद एवोपोद्वलितः । संभावितमिति । (तथा ।) समर्थितमिति । अनेन प्रथमव्याघा-


१. ‘परिनिष्पादकत्वेन' ख. २. ‘तस्याक्रारणस्य ख. ३. ‘कार्यं कार्यमेव’ ख. ४. ‘व्यादिऽलंकारः’ क.


१. तेनाप्यस्य’ क. २. ‘कन्नरेख’ ख.