पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११
अलंकारसर्वखम् ।

व्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरू पेण विदितत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम् । तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः । यस्य गुणालंकारकृतचारुत्वपरिग्रहसा अलकारसवस्वम् ।


समग्रभरसहिष्णुत्वम्’ इति । उपस्कर्तव्यत्वेनेति । तत्परतयावस्थानेनेत्यर्थः । यदु क्तम्—‘वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् । रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥’ इति । अत एव विश्रान्तिधामत्वादित्युक्तम् । आत्मत्वमिति । सारभूतत्व मित्यर्थः । अतश्च तेन विना काव्यमेव न स्यादिति तात्पर्यम् । नहि निर्जीवं शरीरं क्वाप्युपयुक्तम् । ननु यद्येवं तर्हि ‘गङ्गायां घोषः' इत्यत्रापि व्यङ्ग्यस्य सद्भावात्काव्यत्वं प्रसज्यते । नैतत् । इह यद्वदात्मनो व्यापकत्वाच्छरीरे घटादौ (च) वर्तमानत्वेऽपि कर णादिविशिष्टे शरीर एव जीवव्यवहारो न घटादौ तद्वदस्यापि विविधगुणालंकारौचित्य चारुशब्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो नान्यत्रेति न कश्चिद्दोषः । ननु च सर्वत्र क्रियाया एव प्राधान्यं प्रसिद्धमिह पुनर्विषयस्योक्तमिति किमेतदित्याशङ्कयाह- व्यापारस्येत्यादि । विषयमुखेनेति । यथा ह्योदनादेर्विक्लित्त्यादिमुखेन पाकादेः क्रि यायाः स्वरूपोपलम्भः। तत्प्राधान्येनेति । विषयप्रधानत्वेनेत्यर्थः । तेन व्यापारस्य प्रा धान्यमुपचरितमिति भावः । स्वरूपेणेति । स्वरूपं हि तस्य साध्यमानत्वाद्विचारयि तुमशक्यम् । सिद्धस्य हि विचारो भवतीति भावः । एवकारो व्यञ्जनव्यापारव्यवच्छे दकः । समग्रेति । समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः । एतदे. वोपसंहरति -तस्मादित्यादिना । यस्येति । व्यङ्ग्यनाम्रो रसाद्यात्मनो विषयस्य । गुणालंकारकृतचारुत्वेति । गुणानां ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥' इत्यादिनीत्या साक्षादेव तद्धर्मत्वात् । अलं काराणामपि ‘उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण धर्मिणम् । हारादिवदलंकारास्तेऽनुप्रासो पमादयः ॥ इत्यादिनीत्या शब्दार्थलक्षणाङ्गातिशयद्वारेण तदुपस्कारकत्वात् ' । अलंकाराणां च रसादिरूपं व्यङ्ग्यमर्थमलंकुर्वतां मुख्यया वृत्त्यालंकारत्वम्। अलंकार्यसद्भावनिवन्ध नत्वात्तस्य रसाद्यात्मन एव च व्यङ्ग्यस्यालंकार्यत्वेन प्रतिष्ठानात् । अत एव च यत्र स्फुटव्यङ्ग्यार्थरहितत्वं तत्र 'गुणवृत्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता' इत्यादिनीत्या शब्दार्थमात्रनिवन्धनत्वेनोक्तिवैचित्र्यमात्रपर्यवसितत्वादेषां गौणमलंकारत्वम् । यदभि प्रायेणैव च चित्राख्यकाव्यभेदप्रकारत्वमलंकाराणां निरूपयिष्यते । अत एवानुप्रासाद योऽलंकाराश्चित्रमित्याद्यन्यैरुक्तम् । स च प्रतीयमानोऽर्थो यद्यपि वस्त्वलंकाररसत्वेन त्रिविधस्तथापि तेन विना काव्यात्मत्वाभावान्मुख्यत्वेन रसस्यैवात्मत्वं युक्तम् । अतश्च


१. ‘कृतं' क.


१. ‘काव्यं काव्यमेव न भवतीति तात्पर्यम्’ क.