पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
अलङ्कारसर्वस्वम्


‘हे हेलाजितबोधिसत्व वचसां किं विस्तरैस्तोयधे
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः।
तृष्यत्पान्थजनोपकारघटनवैमुख्यलब्धायशो-
भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ।


अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः ।

‘इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठपीठी मुरारि-
र्दिङ्गानां मदजलमषीभाञ्जि गण्डस्थलानि ।
अद्यप्युर्वीवलयतिलक श्यामलिम्नानुलिप्ता-
न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ।


अत्र धवलताहेतुयशोविषयानवक्लृप्तिप्रतिपादनेन ‘विशेषप्रतिषेधे शे- षाभ्यनुज्ञानम्’ इति न्यायात्कतिपयपदार्थवर्जं समस्तवस्तुधवलताकारित्वं नृपयशसः प्रतीयते ।

'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ-
स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठया-
मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ।


इत्यत्र प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या उन्मूलितेति न प्ररोहं गमितेति श्लिष्टमेतदुदाहरणम् ।


हि सामान्यविशेषादीनां गम्यत्वमुक्तम् । विपरीतलक्षणयेति । सनिमित्तात्र वाच्यवै-. परीत्यप्रतीतिरिति भावः । अन्यथा हि सर्वस्मात्सर्वप्रतिपत्तिः स्यात् । लक्षणा च मुख्यार्थ- बाधपूर्वकैव भवतीत्यभिधीयमानायाः स्तुतेर्बाधितस्वरूपत्वमुक्तम् । अस्याश्च निन्दास्तु त्योर्वाच्यवे स्तुतिनिन्दयोर्यदा गम्यत्वमेव भवति तदैवालंकारत्वं नान्यदेति दर्शयितुमाह किं वृत्तान्तैरित्यादि । उन्मूलितेति । स्तुतिरेव वाच्यत्वेनोक्तेत्यर्थः । श्लिष्ट- मिति । अनुदाहरणमेवैतदिति तात्पर्यंम्। अतश्चास्य लोचनकारेण यद्वाजस्तुत्युदाहरणत्व


१. ‘लिप्त' स्ख.


१. ‘पूर्वस्मा' स्त्र. २. ‘नान्यथेति’ स्व. ३. वाक्यार्थत्वेन’ क. १५