रणम् । तदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्भेदप- श्चकर्मुद्दिष्टं तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं
भवति तदार्थान्तरन्यासाविर्भावः । सरूपयोस्तु वाच्यत्वे दृष्टान्तः । अप्रस्तु-
तस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथाप्रस्तुतप्रशंसेति निर्णयः।
उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह-
सामान्यविशेषभावकार्यकारणभात्राभ्यां निर्दिष्टप्रकृतसमर्थनम-
र्थान्तरन्यासः ।
निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात्पूर्वं पश्चाद्वा नि- र्दिष्टस्य यस्समर्थनमुपपादनं न त्वपूर्वत्वेन प्रतीतिरनुमानरूपा सोऽर्था- न्तरन्यासः । तत्र सामान्यं विशेषस्य विशेषो वा सामान्यस्य समर्थक इति द्वौ भेदौ । तेथा कार्यं कारणस्य कारणं वा कार्यस्य समर्थकमित्यपि द्वौ
भेदौ । तत्र भेद चतुष्टये प्रत्येकं साधर्म्यवैधर्म्याभ्यां भेदद्वयेऽष्यौ भेदाः।
हिशब्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्यासोत्तरोपन्यासाभ्यां च भे-
दान्तरसंभवेऽपि न तद्गणना सहृदयहृयहारिणी । वैचित्र्यस्याभावात् ।
तस्माद्भेदाष्टकमेवेहोट्टङ्कितम् । क्रमेण यथा-
स्तुतारोपेण । एतदित्यचेतनेन सह प्रश्नोत्तरकरणम् । एतच्च सामान्यादिभेदपञ्चकं वाच्यं सदर्थान्तरन्यासदृष्टान्तयोर्विषयो भवति । अन्यथा पुनरस्या एवेति दर्शयितुमाह-तत्रे- त्यादि । सर्वथेत्यनेनैतल्लक्षणस्याव्यभिचार उक्तः । उक्तन्यायेनेति । अप्रस्तुतप्रशंसा- भेदानामैव वाच्यत्वकथनात् । आहेति सामान्येत्यादिना । समर्थनार्हस्येति । साकाइ- स त्वार्युपपादनापेक्षत्वात् । उपपादनमित्येवमेव । एतदिति नैराकाङ्क्षयोत्पादनलक्षणम् । का र्यकारणभावाश्रयस्य भेदद्वयस्य काव्यलिङ्गत्वं ग्रन्थकृदेव वक्ष्यतीति सामान्यविशेषभावा- / श्रयमेव भेदद्वयमाश्रयणीयम् । विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यस्योपपाद- नापेक्षत्वं तत्रायमेवालंकारः । नहि विशेषात्मकागस्यवृत्तान्तोपादानं विना पुंसां कुलवैल- क्षण्येन चरितमात्रमेव प्रतिष्ठानिमित्तमिति सामान्यात्मा प्रकृतोऽर्थः सिद्ध्येत । यत्र पुनः ४ स्वतःसिद्धस्यैव प्रतीतिविशदीकरणार्थं तदेकदेशभूतो विशेष उपादीयते तत्रोदाहरणालं-
७ १. ‘समुद्दिष्टं’ ख. २. सामान्यविशेषकार्यकारण’ ख. ३. ‘उषादानं’ क. ४. एवं " कार्यकारणभावे द्वौ भेदौ । तत्र' क.
१. “उपमानापे’ ख.