पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
385
विषमालङ्कारसरः (४०)

त्रिषु विषाणं स्यात्' इत्युपक्रम्य ‘इरिणं शून्यमूषरम्’ इति णान्तनानार्थेष्वमरः । ‘इरिणं तूषरे शून्ये' इति मेदिनी च ॥ अत्र हरिणस्य परानिष्टप्रापणरूपेष्टानवाप्त्यनिष्टप्राप्ती ॥

 यथावा--

 त्वां सर्वगन्धमच्युत सौरभतश्चन्दनो यदि जिगीषुः । चक्रभिदां गन्तैव क्रन्दन एवाथ भवति मन्येऽहम् ॥ १२३४ ॥

 सर्वगन्धं 'सर्वकर्मा सर्वकामस्सर्वगन्धः' इति श्रुतं 'अशब्दमस्पर्शम्' इत्यादिना प्राकृतगन्धादिनिषेधात् अप्राकृतास्स्वासाधारणाः नित्यनिरवद्याः निरतिशयास्स्वभोग्यभूताः कल्याणास्सर्वे गुणा अस्य सन्तीत्यर्थः । ईदृशं त्वां चन्दनः प्राकृतपरिमितगन्धाश्रय इति भावः । सौरभतः जिगीषुर्यदि चक्रेण सुदर्शनेन भिदां भेदनं ‘साधनं कृता' इति समासः । चकारस्य क्रेतिवर्णेन भिदां निरसनं च गन्तैव । अथ ईदृगवस्थावाप्त्यनन्तरं क्रन्दन एव रोदितैव, पक्षे क्रन्दनशब्द एव भवतीति मन्ये । अत्र चन्दनस्येष्टालाभानिष्टलाभौ संभावनया निबद्धौ ॥

 यथावा--

 त्वत्कररुचिविजयाद्भुवि सत्कृतिमीप्स्वभिसमाहतं ताभ्याम् । अग्रे बहुहान्युदितावर्णमथाब्जं जनन्यभून्न्युब्जम् ॥ १२३५ ॥

 हे जननि! अब्जं अग्रे आदौ बह्वी हानिर्यस्य तद्बहुहानि । उदितः अवर्णः पराभूतमित्यपवादो यस्य तत् उदितावर्णं 'अव-

 ALANKARA II
49