पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
362
अलंकारमणिहारे

 हे सरीसृपगिरीन्दो ! तपनस्य भानोः शरीरं वपुः शरीरपदं च । त्वत्तपनीयविमानदीप्तिं आदित्सु आदातुमिच्छामात्रं कृतवत् सत् आदितः प्रथमत एव अशकतया अशक्ततया । शक्नोतीति शकं पचाद्यच् । ततो नञ्समासः ततस्तल् । पक्षे- अशः अविद्यमानशवर्णः कः ककारो यस्मिंस्तत् तस्य भावः तत्ता तया । शकारलोपेन तत्रैव ककारप्राप्त्येत्यर्थः । करीरं वंशाङ्कुरः आसीत् तद्वन्नीलमासीत् । निस्सेजस्कमभूदिति भावः । पक्षे करीरमिति निष्पन्नमभूदित्यर्थः । 'वंशाङ्कुरे करीरोऽस्त्री' इत्यमरः । अत्र भानोश्शरीरस्य श्रीनिवासकनकविमानदीप्त्युपादित्सारूपेष्टालाभः करीरत्वरूपानिष्टोपलम्भश्च ॥

 यथावा--

 चक्रस्त्वत्कुचताप्त्यै कमपि भजन्नन्तराप्यवैलोम्यम् । क्रकचस्सन्परमुद्भवमेत्याग्रे भवति वक्रकच एव ॥ १२०३ ॥

 हे श्रीरित्यध्याहृत्य संबोधनम् । चक्रः कोकः त्वत्कुचताप्त्यै तावकस्तनजन्मलब्धये अन्तः मनसि कंचिद्देवं स्वप्रीतिदं भानुं वा । 'मारुते वेधसि ब्रध्ने पुंसि कः' इत्यमरः । भजन्नपीति योजना उपासीनोऽपीत्यर्थः । वैलोम्यं विलोमत्वं 'वृत्तौ चालोमशौ स्तनौ' इत्युक्तसुलक्षणस्तनत्वार्हमरोमशत्वं आप्य अपीत्येतदत्राप्यनुषज्यते । तावन्मात्रं प्राप्यापि क्रकचस्सन् करपत्रं भूत्वा अरोमशत्वेन करपत्रजन्म लब्धवानितिभावः । अग्रे अनन्तरं अन्यं उद्भवं जन्म 'जनिरुत्पत्तिरुद्भवः' इत्यमरः एत्य अलोमशतया क्रकचजन्मलब्ध्वाऽपि स्वेष्टार्थसिद्धेर्जन्मान्तरं प्राप्यापीत्यर्थः । वक्रकच एव वक्रकेश एव भवति न तु स्तनजन्म लब्धवानिति भावः ।