यथावा--
हरिभुक्तशेषमेव हि यो भुङ्क्ते सोऽङ्ग मङ्गलं भुङ्क्ते । यो ह्यन्यदेव भुङ्क्ते चित्रं सोऽप्यङ्गमङ्गलं भुङ्क्ते ॥
इदं पद्यं कस्यचित्कंचित्प्रत्यनुशासनरूपम् ॥ अङ्गेति संबोधनार्थकमव्ययम् । ‘स्युः प्याट् फाडङ्ग हे है भोः' इत्यनुशासनात् । अङ्ग हे साधो! यः हरिभुक्तशेषमेव भगवन्निवेदितहविश्शिष्टमेव भुङ्क्ते अभ्यवहरति स पुमान् मङ्गलं सर्वपापापनोदनपूर्वकनिश्श्रेयसलाभपर्यन्तं कल्याणं भुङ्क्ते अनुभवति ।
ततस्तु भगवद्भुक्तं प्राश्नीयान्नियतस्स्वयम् । |
इति च श्रीमत्पारमेश्वरसंहिताश्रीभागवताद्युक्तेरिति भावः--
यः पुमान् अन्यदेव भगवदनिवेदितमेव वा भगवदितरदेवनिवेदितमेव वा भुङ्क्ते सोऽपि अङ्ग! हे साधो! मङ्गलं भुङ्क्ते उक्तरीत्या कल्याणभाग्भवतीति चित्रम् 'नानिवेदितभोगस्स्यात्' इति भगवदनिवेदितान्नादिभोगस्य भरद्वाजसंहितादौ निषेधात् ।
सकृदेव हि योऽश्नाति ब्राह्मणो ज्ञानदुर्लभः । |
इति च पाद्मब्राह्मादिषु भगवदन्यदेवतानिवेदितान्नाद्युपयोजनस्य