पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
301
विभावनालङ्कारसरः (३६)

 कनकाहार्यात् हेमाद्रेः शेषाद्रेरिति च शेषाद्रेरेव नामान्तरमिदमित्यसकृदवोचाम । सहस्रशः उदारकूटाः उत्कृष्टः आरकूटः पित्तलं येषां ते तथोक्ताः 'रीतिः स्त्रियामारकूटः' इत्यमरः। अहार्याः गिरयः सहस्रशः उदिताः । पक्षे-- अहार्याः केनापि हर्तुमशक्याः उदाराः महान्तः कूटाः शिखराणि उदिताः इति । तेभ्यः आरकूटाहार्येभ्यः अहार्येभ्यः उदारशृङ्गेभ्यश्च खर्जूरनगाः रजतशैलाः सहस्रशः उदिताः खर्जूरवृक्षा उदिता इति च ‘खर्जूरं रूप्यखलयोः वृश्चिके ना द्रुमे द्वयोः' इति मेदिनी । 'शैलवृक्षौ नगावगौ' इत्यमरः । ते खर्जूरनगाश्व वरिष्ठं ताम्रं फलन्ति जनयन्तीत्यर्थः । फलतिस्सकर्मकोऽपि भवति ‘फलद्भिरुष्णांशुकरावमर्शात्कार्शानवं धाम पतङ्गकान्तैः’ इत्यादिप्रयोगात् । पक्षे-- अतिशयेन उरु वरं वा वरिष्ठं यथा स्यात्तथा फलन्ति फलानि प्रदर्शयन्तीत्यर्थः । ‘वरिष्ठं मरिचेऽपि च । ताम्रे क्लीबं तित्तिरौ ना वरोरुतमयोस्त्रिषु' । इति मेदिनी । अत्र कनकाचलपित्तलाचलादिभ्यः पित्तलरजताचलाद्यकारणेभ्यस्तदुत्पत्तिरूपकार्यं वर्णितमितीयमपि विभावना । श्लेषसंकीर्णत्वं वक्ष्यमाणमालादीपकसंकीर्णत्वं मालारूपत्वं च पूर्वस्माद्विशेषः ॥

 यथावा--

 उच्चतरान्नागधरादुदुम्बरागा निरङ्कुशमुदीताः । प्रायश्शाखास्तेभ्यो जाता हारीतिफलमितोऽभ्युदितम् ॥ १११६ ॥

 उच्चतरात् नागधरात् सीसाद्रेः निरङ्कुशं यथा स्यात्तथा उदुम्बरागाः ताम्रवृक्षाः उदीता इति विरोधः । उरगाचलात्