पुटमेतत् सुपुष्टितम्
89
असमालङ्कारसरः (४)
रिणशिशखरे । परमस्सरमस्स पुमान् फणिधर यस्मिंस्तवोपमां विद्मः ॥ १५२ ॥
इत्यत्राप्यनन्वयध्वनिर्द्रष्टव्यः । अत्र ‘मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्' इत्याद्यर्थोऽनुसंहितः ॥
इत्यलङ्कारमणिहारे अनन्वयसरस्तृतीयः.
अथासमालंकारसरः.
उपमायास्सर्वथैव निषेधोऽसम उच्यते ॥ २४ ॥
सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः । अयं चानन्वये व्यङ्ग्योपि तच्चमत्कारानुगुणतया रूपकदीपकादावुपमेव न भजते पृथगलंकारव्यपदेश्यताम् । वाच्यतायां तु स्वातन्त्र्येण चमत्कारितया पृथग्व्यपदेशभाग्भवति ॥
यथा--
सब्रह्मचारि किंचिन्न ब्रह्मापीक्षितुं तव पटीयान् । यस्य तव निस्समत्वं निस्संदिग्धं श्रुतिर्ब्रवीति हरे ॥ १५३ ॥
यथा वा--
ऐश्वर्यवीर्यधैर्यस्थैर्यौदार्यादिमैर्गुणैर्भगवन् । कस्त्वत्तुलनाकलनायोग्यस्संभाव्यतां कदा क्व नु वा ॥
ALANKARA
12