तृप्तियोगः परेणापि न महिम्ना महीयसाम् । |
इति माघपद्यव्याख्यानावसरे 'नायं दृष्टान्तालंकार बिम्बप्रतिबिम्बभावेनौपम्यस्य गम्यत्वे तस्योत्थानात् । किंतु दृष्टान्तशब्देन तुल्यार्थाभिधानाढुपमालंकरारः’ इत्युक्त्वा उपदर्शितैकावळीग्रन्थमुदाहार्षीन्मल्लिनाथः । वस्तुतस्तु दृष्टान्तोदाहरणादिशब्दघटितेष्वीदृशस्थलेषु पूर्वं व्युत्पादित उदारणालंकार एवेत्युत्पश्यामः । स च सम्यगेव पूर्वं न्यरूष्यतेति नेह प्रतायते ॥
इत्यलंकारमणिहारे दृष्टान्तसरो विंशः
अथ निदर्शनालंकारसरः.
उपात्तयोरर्थयोश्चेदार्थाभेदः प्रकीर्त्यते ।
औपम्यपर्यवसितो भवेत्सेयं निदर्शना ॥
उपात्तयोः अर्थयोः आर्थोऽभेद औपम्यपर्यवसायी निदर्शनेत्यर्थः । अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति वाच्यरूपकवारणायार्थ इति । आर्थत्वं च प्राथमिकान्वयबोधाविषयत्वम् । यदि च विशिष्टोपमायां विशेषणयोरभेदः प्रतीयत इत्युच्यते, तदा बिम्बप्रतिबिम्बभावानापन्नप्रधाननिरूपितगुणीभाववतोरिति विशेषणमर्थयोरुपादेयम् । विशिष्टोपमायां प्रधानभूतयोरुपमानोपमेययोर्बिम्बप्रतिबिम्बभावापन्नतया तन्निरूपितगुणभाववतोर्विशेषणयोरार्थाभेदभानेऽपि नाति-