पृष्ठम्:अलङ्कारमणिहारः.pdf/२५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
249
उत्प्रेक्षासरः(१४)

एवं वक्ष्यमाणफलोत्प्रेक्षायामप्यूह्यम् । तस्मात् स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादने । न तु हेतुफलोत्प्रेक्षयोरिति द्रष्टव्यम् ॥

 गुणहेतूत्प्रेक्षा यथा--

 अच्छाच्छरुचिरयं मम सच्छात्र इति प्रमोदतो नूनम् । स्वाभिमुखे देवेऽनुप्रविशति कौस्तुभमणिं सहस्रांशुः ॥ ४३१ ॥

 अच्छाच्छरुचिः अतिस्वच्छद्युतित्वात् अकुटिलप्रीतित्वाच्चेत्यर्थः । हेतुगर्भविशेषणम् । अयं कौस्तुभमणिः मम सच्छात्रः इति प्रमोदतो नूनं देवे श्रीनिवासे स्वाभिमुखे सति सहस्रांशुः कौस्तुभमणिं अनुप्रविशति योगक्षेमादौ तदैकरस्यं भजतीति भावः । तत्र प्रतिबिम्बितो भवतीति वास्तवार्थः । भगवत आभिमुख्ये सत्येव तद्वक्षस्स्थिते कौस्तुभे सहस्रांशुप्रतिफलनसंभवात्स्वाभिमुखे इत्युक्तिः । अत्र सच्छात्रताहेतुकप्रमोदो गुणः कौस्तुभानुप्रवेशं प्रति हेतुत्वेनोत्प्रेक्ष्यते । स एवानुप्रवेशो निमित्तमुपात्तम् ॥

 क्रियाहेतूत्प्रेक्षा यथा--

 हरिमुखराकाचन्द्रालोकानिशसेवनादिव रमायाः । नयनेन्दीवरयुगळं नित्योत्फुल्लं निमीलनाज्ञमभूत् ॥ ४३२ ॥

 अत्र सेचनादिति क्रिया नित्योत्फुल्लतां प्रति हेतुतयोत्प्रेक्ष्यते सैवोत्फुल्लता निमित्तम् ॥

 ALANKARA
32