त्कारिणीत्युल्लेखश्शक्योऽपह्नोतुम् । अनेककर्तृकानेकधाग्रहणस्यालंकारान्तरविविक्तविषयस्य विच्छित्तिविशेषस्येहापि जागरूकत्वात् ॥
द्वितीयस्योल्लेखस्य ध्वनिर्यथा--
गगने विसृत्वरी ते स्थगयति ककुभां मुखानि तनुसुषमा । धरणौ तु विबुधतटिनीं परिरिप्सुर्भगवति फणिगिरिसुरद्रो ॥ १७२ ॥
अत्राधिकरणभेदप्रयुक्तमेकस्यामेव श्रीनिवासविग्रहसुषमायां कादम्बिनीत्वयमुनात्वरूपानेकविधत्वं रूपकसंकीर्णं ध्वन्यते ॥
इत्यलंकारमणिहारे उल्लेखसरो नवमः.
अथ स्मृत्यलंकारसरः.
या सादृश्यपरिज्ञानोद्बुद्धसंस्कारतस्स्मृतिः।
प्रयोज्या सा स्मृतिर्नामालंकृतिः कथ्यते बुधैः ॥
सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्या स्मृतिः स्मृतिर्नामालंकारः । अयमेव स्मरणं स्मृतिमानित्यपि व्यवह्रियते ।
यथा--
सुरुचिरमौक्तिकमणिसरविसृमरमसृणतरशुचिरुचिनिमग्ने । कमलेक्षणहृदि कौस्तुभकमले दुग्धाब्धिनिवसतिं स्मरतः ॥ २७३ ॥