पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1-5 सटीकामर कोशस्य आरामः स्वादुपयनं कृत्रिमं वनमेव यत् || अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ २ ॥ पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् ॥ स्यादेतदेव प्रमदवनमन्तः पुरोचितम् ॥ ३ ॥ वीथ्यालिराँवलिः प:ि श्रेणी लेखास्तु राजयः ॥ वन्या वनसमूहे स्याङ्कुरो ऽभिनवोद्भिदि ॥ ४ ॥ वृक्षो महीरुहः शाखी विटपी पादपस्तरुः || अनोकहः कुटः शॉलः पलाशी हुहुमागमाः ॥ ५ ॥ वानस्पत्यः फलैः पुष्पातैरपुष्पादनस्पतिः ॥ [ वनौषधिवर्गः निष्कुटा: द्वे गृहसमीपकृत्रिमवनेषु । “कुटागृहाभिष्क्रान्ता निष्कुटाः " ॥ १ ॥ यत्कृत्रिमं कृत्या निर्वृत्तं वनं तत्र आरामः उपवनं इति द्वे । वृक्षवाटिकेत्ये- कम् अमात्यानां वेश्यानां च यद्गृहोषवनं तत्र ॥ २ ॥ यद्राशः साधारण प्रम- दाभिरन्यैर्वा सह फ्रीडाद्यर्थं वनं तत्र आक्रीड: उद्यानमिति द्वे । “शेयमा- क्रीडमुद्यानम्" इत्यमरमालायामाक्रीडस्थापि लीबत्वमुक्तम् । अत उद्यानं अन्तः पुरोचित राझीनामेव क्रीडायामुचित चेत्प्रमदवनं स्यात् । “छ्यापोः संज्ञाछन्दसोः” इति । इस्खः । एकम् ॥ ३ ॥ वीथी “डीपो विकल्पादन्यत्र वीथिरित्यपि ।" आलिः आवलिः पतिः श्रेणी पञ्चकंप: । “आल्या- दित्रीणि डीपि दीर्घान्तान्यपि । श्रेणी इस्वान्तोऽपि । ” लेखा: “रेखाः ” राजयः द्वे लेखानाम् । “सान्तरा पतिः । निरन्तरा लेखा । यथा विप्रपतिः भलेखा" | वनानां समूह वन्येत्येकम् । अभिनवोद्भिदि नूतनप्ररोहे अड्कुरः इत्येकम् । जङ्करः । प्रोक्तः" इति हलायुधः ॥ ४ ॥ वृक्षः 46 महीरुह: शाखी विटपी पादपः तरुः अनोकहः कुटः शालः सालः । “ सालः सर्जतरौ वृक्षमाप्राकारयोरपि” इति । सालः पादपमात्रे स्यात्प्राकार:" इति मेदिनीविश्वकोशौ । पलाशी तुः द्रुमः अगमः त्रयोदश वृक्षस्य ॥ ५॥ पुष्पाजातैः फलैरुपलक्षितो वृक्षो वानस्पत्यः । एकं आम्रादे: । अपुष्पात्पुष्प विना जातैः फलैरुपलक्षितो वृक्षो वनस्पतिः एकं पनसोदुम्बरादेः । द्रुम- मात्रेऽपि वनस्पतिः । “वनस्पतिर्ना द्रुमात्रे विना पुष्प फलिद्रुमे " इति मेदि- नीकोशात् । फलपाक एवान्ती वासां ताः ओषध्यः स्युः । एकं श्रीहियवादेः । “ओषघिः फलपाकान्ता स्यात्" इति वा पाठः । डीषि ओषधी | अवन्ध्यः Digized by Google