पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] द्वितीय काण्डम्. प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः ॥ ७ ॥ आर्यावर्तः पुण्यभूमिर्मभ्यं विन्ध्यहिमालयोः || नीवृज्जनपदो देशविषयौ तूपवर्तनम् ॥ ८ ॥ त्रिष्वागोष्ठान्नडप्राये नड्डाडल इत्यपि ॥ कुमुदान्कमुदमाये वेतखान्बहुवेतसे ॥ ९ ॥ शादल: शादहरिते सजम्बाले तु पङ्किलः ॥ जलप्रायमनूपं स्यात्पुंसि कच्छंस्तथाविधः ॥ १० ॥ 7-10 यसिन्देशे न विद्यते । तं म्लेच्छविषयं प्राहुरार्यावर्तमतः परम्” इति । मध्य- देशः मध्यमः द्वे । एतत्परिमाणं तु ।“हिमवद्विन्ध्ययोर्मध्यं यत्त्राग्विनशनादपि । प्रत्यगेव प्रयागाच मध्यदेशः प्रकीर्तितः" इति ॥ विनशन तीर्थमेद: । “कुरु- क्षेत्रम् ” ।। ७ ।। आर्यावर्तः पुण्यभूमिः द्वे विन्ध्यहिमाचलयोरन्तरस्य । उ च "आसमुद्राच्च नै पूर्वादासमुद्राच्च पश्चिमात् || तयोरेवान्तरं गिर्योरार्यावर्त विदुर्बुधाः" इति । हिमप्रधानोऽगः हिमागः । हिमेनाल्पते हिमालः । अल भूषमादौ पञ् । हिमागयोरित्यपि पाठः । नीवृत् जनपद: द्वे जनैर्वास्य- मागराष्ट्रस्य मनघादेः । नीवृत्युंसि साहचर्षात् नियतं वर्ततेऽसिनीवृत् । "नहिवृति" इति दीर्घः । जनः पदं वस्तु यत्र | “जानपदोऽपि” । “भषेजनपदो जानपदोऽपि जनदेशयोः” इति विश्वमेदिन्यौ” । देशः विषयः उपवर्तमं त्रीणि ग्रामसमुदागलक्षणस्य देशमात्रस्य ॥ ८ ॥ अथ गोष्ठशब्दमभिव्याप्य वक्ष्य- मामा: त्रिषु । त्रिषु लिङ्गेषु इत्यर्थः । नड्डान् नङ्गलः द्वे नडप्राये नडबहुले देशे । कुमुदानित्येकं कुमुदप्राये । वेतखानित्येक बहुवेतसे । बहनो वेतसा वानीरा यत्र तस्मिन् देशे। तदसिनस्तीत्यर्थे “कुमुदनडवेतसेभ्यो अतुप्” ।। ९ ।। शादैर्वालबेहरिसे देशे शादल इत्येकम् । शादाः सन्त्यसिन् साइलः । एतौ मध्यटवर्गीयौ । “वैदूर्यमणिशाला" इति द्विरूपकोशात् । शाइल इत्यपि पाठः | सज्जम्बाले कर्दमयुक्ते देशे पक्किल इत्मेकम् । जलप्रार्य अनूपं द्वे जल- बहुरुदेशस्त । अनुगता आपोऽत्र अनूपम् | अनूपदेशलक्षणम् । “नानाडुगल- तानीरुचिर्सरप्रान्तशीतलैः ॥ वनैर्व्यासमनूपं तत् सस्यैव्रीहियनादिभिः” । तथा- विषः अनूपसदृशः कश्चिमयादेरुपान्तदेशः कच्छ इत्युच्यते । एकम् | कछ शब्दस्म इसीति विशेषसिम्विति पूर्वोक्तस्य बाधनार्थः । कच्छ इत्यनुषस्यैव Digitized by Google