पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५] तृतीयं काण्डम्. पातकोद्योगचरकतमालामलका नडः ॥ ३३ ॥ कुष्ठं मुण्डं शीधु बुंस्तं वेडित क्षेमकुट्टिमम् || संगमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३४ ॥ कवियं कॅन्दकार्पासं पारावारं युगन्धरम् || यूपं प्रग्रीवपात्रीवे यूषं चमसचिकसौ ।। ३५ ।। अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् || तन्त्रोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥ ३६ ॥ इति पुन्नपुंसकसंग्रहवर्गः ॥ 33- 36 बस्त्रम् " | तमालो वृक्षभेदः । “तमालस्तिलके खड्ने तापिच्छे वरुणद्रुमें" इति मेदिनी । आमलको धात्रीफलम् | नडोऽन्तर्विवरं तृणमेव || ३३ || कुष्ठं रोगमेदः । “कुष्ठं रोगे पुष्करेखी" इति मेदिनी । “कुष्ठं भेषजरोगयोः” इति हैमः । मुण्डं शिरः । शीषु मद्यम् । बुस्तं भृष्टं मांसं पनसादिफलासारभागच | कचित्पुस्तमिति पाठः । कचित् श्वस्तमपि । क्ष्वेडितं वीरकृतसिंहनादः । क्षेमं कुलम् | “क्षेमोऽत्री लब्बरक्षणे । चण्डायां ना शुभेन र कात्या- यन्यां तु योषिति " इति मेदिनी । मोक्षेऽपि क्षेमः | कुट्टिमं f/तभेदः । "छुट्टिमोडली निषद्धा भूः” इति कोशान्तरम् । “फरसबंदीति रूप तायाः " । संगमं संयोगः । शतमानं मानभेद: । अर्मे अक्षिरोगभेदः । शम्बलं वर्णभेदः । पाथेयं च । “शबलोऽस्त्री सम्बलवत्कूलपाथेयमत्सर " इति मेदिनी | अव्ययं स्वरादिनिपातवाचकम् । “अव्ययोऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिषु " इति मेदिनी । ताण्डवं नृत्यभेदः ॥ ३४ ॥ कविर्य महाराष्ट्रभाषया कडियाळीति प्रसिद्धम् । लगाम इत्यपि । “नार्थी कवी खलीनं कवियं वा ना तुरङ्गमुखमाण्डम्" इति बोपालितः । कन्दं पद्मिनीमूलादि । “कन्दो- उसी सूरणे सस्यमूले जलघरे पुमान्" इति मेदिनी । कचित्कर्मेति पाठः । कार्पासं वस्त्रयोनिभेदः । “पारावारः पयोराशौ पारावारं तटद्वयम्" इति हैमः । युगन्धरं कूषरम् | यूपं यज्ञाङ्गभेद: । प्रग्रीवं द्रुमशीर्षकं “वातायनं मुख- झाला वा" । पात्रीषं यज्ञपात्रभेदः । यूषं मण्ड इति प्रसिद्धम् । “मुद्रामल- कबूषस्तु ग्राही पित्तकफे हिसः" इत्युक्तं वैद्यके । चमसविकसौ पात्रभेदौ ॥ ३५ ॥ अर्धर्चादौ असिन्वर्गे पुनपुंसकाधिकारे इति यावत् । “घृतादीनां पुंस्त्वार्थ पाणिन्यादिमिरुक्तं तत्तु वैदिकम् । वेदे प्रसिद्धमित्यर्थः । अत- Digitized by Google